पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला णानां माहात्म्येन हसिता गिरी वाचो निर्मला अकलङ्का निरपशब्दास्तास्त्वं शास्त्रप्रभा आयुधदीधितयस्तिमिरच्छिदोऽन्धकारन्यो वहसि बिभर्षि धारयसि । निरपशब्दा. वाचो मोहत्र्यस्तवायुधमित्यर्थः ॥ ६४ ॥ शमीह ते समानतो विभावितोऽत्रसन्न यः । विभावितोऽत्र सन्नयः शमीहते स मानतः ।। ६५ ।। हे देवि, ते तव समानतः सम्यक्प्रणतो य. इह संसारेऽत्रसन्नबिभ्यन्सन न बिभौ भगवति वासुदेवाख्ये ब्रह्मणि इतः न गतः । मोक्षं न प्राप्त इति भावः । शमी जिते न्दियः सन् सन्नयो विद्यमाननीतिः । अत्र संसारे विभावितो लक्षितो मानतो ज्ञानाद्धेतो संश्रयत ईहते चेष्टते यः। संसारसक्ततया. भगवन्तं विष्णु न श्रितः सोऽपि त्वां प्रणत. श्वेत्तद्विद्यमाननीतिः शमी च प्राप्तज्ञानो विश्वं प्राप्नोतीति भावः ॥ ६५ ॥ मातरं त्वा पदं सद्य आश्रितास्ते कथं जनाः। मा तरन्त्वापदं सद्य आद्यं श्रेयः समाश्रिताः ।। ६६ ।। हे देवि, त्वां मातरमम्बिकां ये जना लोका आश्रितास्ते कथं केन प्रकारेण सद्यस्त- त्क्षणमेव आपदं दुर्गतिं. मा तरन्तु मा लङ्घयन्तु । दुःखमुत्तीर्य वर्तन्त' इति भावः । त्वां कीदृशीम् । सत्पदं शोभनस्थानम् । जनाः कीदृशा: आद्यमग्रिमं श्रेयः शिवं समा- श्रिता अधितिष्ठन्तः ।। ६६ ।। भाति त्वत्तनुसंश्लेषे सत्यम्ब वपुरनुत्तरम् । संसाराब्धौ सदाहुस्ते सत्यं वपुरनुत्तरम् ॥ ६७ ।। हे अम्ब मातः, त्वत्तनुसंश्लेषे स्वत्कायसङ्गे सति पुरनुत्रिपुरारातिः शंभुर्भाति शोभते । ते तव संबन्धि च सत्सत्यं ध्रुवं वपुः पश्यन्तीवाभ्रूपं शरीरं संसाराब्धौ जगज्जलधौ स- त्तरं शोभनं प्लवं अनुत्तरमविद्यमानावरमाहुर्ब्रुवते । तत्त्वविद एवं गायन्तीत्यर्थः । अवि- धातोरम्बाशब्दसिद्धेः कथं केवलौष्टयतया भकारः परमवर्णः (१) दन्त्योष्ठयोयोरपीति यमकस्यआभङ्गः । ६.७॥ यच्छ मे नित्यसंसङ्गि यच्छमे तदिदं मनः । स्वच्छलो भक्तियोगस्ते स्वच्छलो कविवेकसूः ॥ ६८ ॥ हे देवि, यत् शमे विषयांणामसङ्गे मनश्वेतो नित्यसंसङ्गि सततानुरक्तं तदिदं तथावि- धमेतन्मे मम यच्छ देहि । यतस्ते तव संबन्धी यो भक्तियोगः सेवासङ्गः स स्वच्छल सुष्ठु अविद्यमानच्छलो निच्छिद्रः सन् स्वच्छं निर्मलं लोकानां जनानां लोकयोर्वा इहामुत्र च विवेकं प्रकृतिपुरुषोत्तमोत्कर्ष सूते जनयति । अत एव इहात्र परत्र च स्वच्छता ॥६॥ के बलन्ते वितन्वन्तकृतस्त्वत्प्रणता भवे । केवलं ते वितन्वन्त आसते विमला घियम् ॥ ६९ ॥