पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/२३

एतत् पृष्ठम् परिष्कृतम् अस्ति

देवीशतकम् । हे देवि, त्वत्प्रणतास्त्वत्प्रह्णा जना वितन्वन्तकृतः वितनोरनङ्गस्यान्तकृतो विनाशका- रिणो भवे संसारे के वलन्ते के आविर्भवन्ति । त्वत्प्रणता जितकामा विमुच्यन्त इति भावः । ते केवलमनन्यव्यापाराः सन्तो निर्मलाममोहां धियं बुद्धिं वितन्वन्तो विस्तारयन्त आसते तिष्ठन्ति । यावत्संसारस्तावद्विमोहः । भूयश्च त्वत्प्रणता भवे न निवर्तन्ते ।। ६९ ॥ देवि निर्दग्धकामस्य त्वं निरावरणात्मनः । दरस्य शुधसंतानं तेनासौ भ्राजते तथा ॥ ७० ॥ देवि, त्वं हरस्य गिरिवरतनयाधवस्य शिवस्य निर्दग्धकामस्य भस्मीभावितमीनके- तनस्य तथा निरावरणात्मनः निर्गतमावरणं परिधानमात्मनो अस्य आशाम्बरस्य दिग्वा- ससः शुभसंतानं पुण्यप्रतानं श्रेयोविस्तारस्तेन कारणेनासौ हरस्तथा माहात्म्ययुक्तों भ्रा-- जते शोभते । अत्र च क्रियां प्रत्याकाङ्क्षेव नास्ति : विमृश्यमानश्वार्थो नान्वयः (१) एवं क्रियाया अभावात् शुभसंतानमिति द्वितीयानुपपत्तेस्त्वमिति प्रथमाया असामानाधिकर- ण्याच एतत्प्रतीयमानार्थसंबन्धिनी क्रिया गोपिता भवति । अत्रैव' च व्याख्यानाल्लभ्यते। तदा चान्वयो भवति-~यथा देवि, निर्दग्धकामस्य निरभिलाषस्य तथा निरावरणात्मनः प्रक्षीणक्लेशजालस्वमावस्य यतस्त्वमशुभसंतानमावरणसंततिं हरसि निवास्यसि तेनाशुभ- संतानहरणेनासौ तथा भ्राजते दीप्यते ॥ ७० ॥ द्विषद्भिया सपदि विमुच्यते यतस्तवानतो जननि जयाशया न कः । स्तवानतो जननिजया शयानकः करोति ते युधि मधुसूदनस्वसः ॥ ७१ ॥ है मधुमथनभगिनि कात्यायनि जननि मातः, अतोऽस्माद्वक्ष्यमाणाद्धेतोः के पुमान् युधि संग्रामे जयाशयारिपरिभवाभिलाषेण स्तवान्स्तुतीर्न करोति न विदधाति । सर्वलोको जिगीषुस्तव स्तुतीर्विरचयतीत्यर्थः । यतो यस्मात्कारणात्तव भक्त्या आनतः प्रह्णः जननि- जया लोकात्मीयया द्विषद्भिया वात्रुभीत्या का शयानकोऽपि निरुद्यमोऽपि सपदि. तत्क्षणमेव प्रणामानन्तरमेव विमुच्यते त्यज्यते ततो हेतोरिति संबन्धः ॥ १ ॥ ज्यायोनिष्ठारिवर्याधिनियमनवरस्वैरदत्तायताज्ञा स्वाराधत्वासमध्यानियजनजननि ज्ञेयसुस्थावभासा नानापुण्यागमस्था जननमनमयज्ञाननन्द्या वरा धी- र्याता नव्या विभुत्वं नुतसरलमनस्तामसस्यावहास्ये ।। ७२ ॥ प्रतिलोमानुलोमत्तयात एवायं द्वितीय शोकः-- स्येहाव स्या समस्तानमलरसतनु त्वं भुवि व्यानतार्या धीरा वन्द्या न न ज्ञा यमनमननजस्थामगण्या पुनाना