पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/२७

एतत् पृष्ठम् परिष्कृतम् अस्ति

देवीशतकम् । योऽसौ जलभावो जडभावो जाड्यं तत्र सहो बलं येषां तेषु । लडावेकरूपायित्या. म्नायः । अथ प्राकृतापभ्रंशभाषार्थः । जस्सु पर यस्य परं केवलं आगम मणि आगमाः शास्त्राणि मणि मनसि तथा सुदमाहिम श्रुतमहिमा शास्त्राववोधः, तथा सम शमः विष- यनिग्रहः एते च सर्वे संमद साम्यदाः साम्यमनाकुलत्वं ददाना किर स वि किल सोऽपि भयवदितोसमय उज्जलभावसहस्सु भगवतीतोषमयमुज्ज्वलभावसहस्रम् । सहस्त्र शब्दो बाहुल्यार्थे । तदपि किल देवीपरितोषागतं निर्मलपदार्थसहस्रमित्यर्थः । देवीप्रसा- दविलसितं तत्तस्येति वाक्यार्थः ॥ ७॥ अथ चक्रम्- त्वं वादे शास्त्रसङ्गिन्यां भासि वाचि दिवौकसः । तवादेशास्त्रसंस्काराज्जयन्ति वरदे द्विषः ॥ ८ ॥ (अप्रत्यभिज्ञायमकमिदम् ।) हे देवि वरदेऽभिलषितदायिनि, वादे स्वपक्षपरपक्षपरिग्रहे शास्त्रसङ्गिन्यां शास- ज्जायां वाचि भारत्यां त्वं भवती भासि शोभसे । तथा दिवौकसो लेखा देवास्तव भ. वत्याः संबन्धिन आदेशास्त्रसंस्कारान् आदेश आज्ञा तदेवास्त्रं विनाशायाभिनिर्मितं द्रव्यं तत्संस्कारात्तद्भावनाबलाद्धेतोर्द्विषः शत्रून् जयन्स्यभिभवन्ति । वादे शास्त्रसमिति पञ्चा- क्षरयमनेऽप्यप्रत्यभिज्ञानादप्रत्यभिज्ञायमकमेतत् ॥ ८ ॥ सदाव्याजवशिध्याताः सदात्तजपशिक्षिताः ददास्यजस्रं शिवताः सूदात्ताजदिशि स्थिताः ।। ८१ ।। (गोमूत्रिकाबन्धद्वयेन जालाकारबन्धसंबन्धादयं जालबन्धः ।) हे देवि, अजसमनवरतं शिवताः श्रेयस्खानि ददासि प्रयच्छसि । कीदृशीः शिवताः । सदा सर्वकालमव्याजैर्निर्दम्भैर्वशिभिर्जितेन्द्रियैर्ध्याताश्चिन्तिता तथा सच्छोभनं कृत्वा आत्तजपैर्गृहीतमन्त्रावर्तनैः शिक्षिता अभ्यस्ताः । अन्यच्च सूदात्ताजदिशि स्थिताः सुष्टु उदात्ता ऊर्जिताः प्रधाना या अजदिक् विष्णुस्थानं परं ब्रह्म तत्र स्थिताः । परब्रह्मण आगता इति भावः । अनन्तरप्रक्रान्ताप्रत्यभिज्ञायमकश्लोकेन सहामुना गोमूत्रिकाबन्धेन सह जालबन्धोऽयम् । केचित्वनेन (केवलेन) गोमूत्रिकाबन्धेन केवलेनैव जालाकृतिं विलिखन्ति तत्र यथानुरूपे युक्तायुक्तविचारे जालस्य प्रयोगतत्त्वविदश्चित्रकाव्यकरणकु. शलाः कवयः प्रमाणम् ।।८।। हरेः स्वसारं देवि त्वा जनताश्रित्य तत्त्वतः वेत्ति स्वसारं देवित्वा योगेन क्षपिताशुभा ॥ ८२ ॥ हे देवि, जनता जनसमूहस्त्वा त्वां भगवतीं हरैः स्वसारं गोविन्दस्य भगिनीमाश्रित्य संसेव्य तत्त्वतः सत्यतः स्वसारं निजमुत्कर्षं वेति जानाति । कथम् योगेन चेतोवृत्तिनि-