पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/३२

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। ननाशिनि देवि, त्वं भवती महत्ता श्रिता माहात्म्यमास्थिता सती यः शुद्धत्वं दासजनो गतः नैर्मल्यं प्राप्तः तमावस अधितिष्ठ। अन्यस्य सपापस्य पापं कल्मषं प्रसभं बला- ज्जय निवर्तय ।। ९६॥ त्वं साज्ञासु जगन्मातः स्पष्टं ज्ञाता सुवर्त्मसु । प्रज्ञा मुख्या समुद्भासि तत्पृथुत्वं प्रदर्शय ॥ २७ ॥ मातस्त्रैलोक्यजननि, सुवर्मसु सन्मार्गविषयास्वाज्ञासु निरूपणासु त्वं भवती मुख्या पधाना प्रज्ञा बुद्धिः स्पष्टं ज्ञाता सुव्यक्तं विदिता तदा तत्पृथुत्वं प्रज्ञापृथुत्वं बुद्धिविस्तार समुद्भासि समुद्भासते यत् तत्प्रदर्शय प्रकटीकुरु ॥ ९७ ॥ अस्मादेव श्लोकादक्षराण्युच्चित्येयमार्या भवति- आज्ञासु जगन्मातः स्पष्टं ज्ञाता सुवर्त्मसु प्रज्ञा भासि त्वं सा मुख्या समुत्पृथुत्त्वं प्रदर्शय तत् ॥ ९८ ॥ अर्थोऽस्या:-हे देवि, जगन्मातस्त्रिलोकजननि, शोभनं वर्त्मन मार्गों येषां पुंसां तद्वि- षया या आज्ञास्तासु त्वं सां ज्ञाता विदिता मुख्या प्रज्ञा भासि । स्पष्टं समुत् प्रकटमा नन्दरूपं सत्पृथुत्वं महिमानं प्रदर्शय ॥ ९८ ॥ हन्त्र्यों रुषः क्षमा एता सदक्षोमास्तमुन्नतः । सतेहितः सेवते ताः सततं यः स ते हितः ।। ९९ ।। हे देवि, क्षमा एतास्त्वं एताः प्रसिद्धा याः क्षान्तयो दर्पनिहत्तयस्ता भवती इति भावः। कीदृशाः क्षमाः। रुषो हरायः क्रोधविनाशिन्यः। तथा सदक्षोभाः सत्याचाक्षोभाश्च । श्रेष्ठा अधिकाश्वेत्यर्थः । ताः क्षमाः सततमजस्रं य उन्नतः प्रधानपुरुषः सता ईहितः शो- भनेन मार्गेण व्यापारितः सन्सेवते आनयते स ते भक्त्या हितोऽनुकूलः ॥ ९९ ॥ करोषि तास्त्वमुत्खातमोहस्थाने स्थिरा मतीः । पदं अतिः सुतपसा लभतेऽतः सशुक्लिम ॥ १० ॥ हे देवि, उत्खातमोहस्थाने, उत्खातान्युन्मूलितानि मोहस्थानानि मदादयो यया तस्या आहूतिः । यस्त्वं स्थिरा मतीः मैत्र्यादिका धिषणा अचलाः करोषि संपादयसि । अतो. हेतोः यतिर्मुमुक्षुः सुतपसा शोभनेन निर्दम्भेन व्रतादिनाः सशुक्लिम शुक्लिमा शुक्लगुणत्वं तेन शुक्ल्म्ना सह वर्तते यत्तत्सशुक्लिम सत्त्वगुणसहितं रजस्तमोरहितं पदं स्थानं लभले प्राप्नोति । चत्वार एते नेमिश्लोकाः । एभ्यश्च प्रथमं (प्रथममक्षरं) त्रीणि त्रीण्यक्षराणि लि- खित्वा चतुर्थमक्षरं श्लोकप्रान्ते च भवतीति नेभेर्द्वितीयमर्धं मीलितं भवति । एवमेव चा- न्तलिखित्वा मध्यान्नामिमीलनं भवति । एवं चक्रप्रस्तारः ॥ १० ॥ अत एव द्वात्रिंशतो नेमिस्थानानाभितो वा भ्रमं दत्त्वा तृतीयं तृतीयमेकोनत्रिंशमेको-