पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/३८

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। राजते विष्टपाकारा राकापाहिफणावरा । रावणाराधिताक्षारा राक्षाताम्राक्षि तेडजरां ॥ ९॥ पद्मबन्धः॥ तनुरद्रिसुताकान्त कान्तलावण्यवाहिनी । वाहिनीवामृतमयी मयीह विमलातनुः ॥ १० ॥ शृङ्खलायमकम् ।। (युग्मम्) हे अद्रिसुताकान्त पार्वतीश, तव संबन्धिनी तनुर्मूर्तिः राजदे। कथंभूता । विष्टपा- कारा विष्टपं जगत् तदाकारा। तथा राकाप: पूर्णचन्द्रः तथा अहिफणाः तामिर्वरा उ. त्कृष्टा । तथा रावणेनाराधिता सेविता । अक्षारा न क्षारा। (मधुरा) सौम्यस्वभावेत्यर्थः । तथा राक्षा लाक्षा तद्वताम्रमक्षि यत्रेति क्रियाविशेषणम् । राक्षाताम्राक्षि राजते इत्यर्थः । तथा अजरा जन्मादिरहितत्वात् । कान्तलावण्यवाहिनी अमृतमयी वाहिनी नदीव । अ. तनुर्बहला । युगलकम् । आधः श्लोकः पद्मवन्धः । द्वितीयः शृङ्खलायमकम् ॥९॥१०॥ दरवति वरदय भटभयदपणक्षणयथरथपर पुरशरसमरे । मदमयरणरय जय जय स्वमत क्षतमखसुरवरसुखद शिव ॥ ११ ॥ महादेवबन्धः । जागेश्वरबन्ध इत्यर्थः । हे शिव, त्वं जय जय । किंविध । दरवाति समये मादृशे वरदय बरा उत्कृष्टा दया यस्यः । अन्धकादीनां विश्वकण्टकानामपि पुनर्दयया गाणपत्यप्रतिपादकत्वात् । तथा भ- टानो भयदः पणो व्यवहारो यस्य तादृशः । तथा क्षणं पन्था यस्य तादृग्यो रथस्तत्र पर उयोगवान् तदामन्त्रणं भटभयदपणक्षणपथस्थपर। तथा पुराणां त्रिपुराणां शरसमरे बाणयुद्धे मदमयः साहंकारो रणरयः संग्रामवेगोः यस्य तदामन्त्रणम् । तथा खमत खा- नामिन्द्रियाणां मताभिप्रेत । तदधिष्ठातृवात्सर्वेन्द्रियाणाम् । तथा क्षतो मखो दक्षा. ध्वरो येन । तथा सुरवराणां सुखं ददातीति तत्संबोधनम् ॥ ११॥ क्रूरा नराणां भवता शोधनीयाविभागतिः । चराचराणां भवता बोधनीया शुभा मतिः ॥ १२ ॥ क्रूरा दुःसहा संसारे रता नराणां भक्तानां भवता स्वामिना - अविभागतिस्तामसी गतिः शोधनीया। चराचराणां जङ्गमस्थावराणां शुभा मतिर्भवतैव बोधनीया । अयं गोमूत्रिकाबन्धः ॥ १२॥ नरकं कालमालाभरणा हि तरसा श्रिताः । नरकङ्कालमालाभरणाहितरसाश्रिताः॥ १३ ॥ काञ्चीगोसूत्रिकाबन्धौ समुद्गयमकम् ॥