पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईश्वरशतकम् । वरा उत्कृष्टा । तथा आसन्ना निकटा सरावा नादयुक्ता लामा उत्कृष्टरूपा देवता यस्यो सा आसन्नसरावलामा । तथा बादे चतुर्दशविद्यास्थानविशारद (विचार)विषये हिता । भक्तविद्वज्जनेभ्य इति शेषः । तथा मन्त्रैर्मननत्राणधर्मादिभिर्देवतोचारकपदैर्मता भाविता। यदाहुः मन्त्रमूर्तिस्तु देवता' इति । तथा अहिभिर्नागदेवैश्वातिभाविता अतिध्याताः । तथा तुला स्तुत्या ये ब्रह्मादयस्तैरपि नुता नुत्यनुता । एवंविधा त्वदीया तनुर्विभाति । 'अमत्रमता' [इति पाठे] अमत्रेभ्यः पात्रेभ्यो मता.अहयः सर्पा यस्यां तादृशी देवा- तिभाविता च । [इत्यर्थः) । युगलकम् । आद्यों युक्पादप्रतिलोमः। द्वितीयः प्रतिलो- मानुलोमपादः ॥ २१ ॥ तनोति ते तात नुतौ नितान्तं नूनं नतानां तनुतां न नीतिः । नेनेन नो नूतनतां तु नीता तेनोन्नतानन्ततनो ततेतिः ॥ २२ ॥

हे भगवन् , तात पूज्य, उन्नतानन्ततनो, उन्नता अनन्ताः पृथ्व्यादयस्तनवो मूर्तयो यस्य तत्संबोधनम् । ते तव संबन्धिीनी नीतिः नतानां भक्तानां नुती स्तुती सत्यां नूनं निश्चितं तनुतां लघुतां न तनोति । दार्ढ्यमेव पोषयति । तु पक्षान्तरे । तेन हेतुना इ- नेनार्थीद्भवता स्वामिना नोऽस्माकं तता विस्तीर्णा ईतिः संसारबाधा नूतनतां नवत्वं न नीता । भवन्नुतिमात्रेण वयं मुक्ता इति सूचितम् । श्लोकोऽयं व्द्यक्षरः ।। १६ ।। हर प्रभो परं बन्ध रक्षोभागेऽस्थिरो भव । प्रभावितदमो रोरं भोगातत्व सदस्थिप ॥ २३ ॥ अर्धभ्रमः॥ हे प्रभो भव,त्वं रोरं दारिद्रं हर निवारय । परमत्यर्थ वन्द्य वन्दनीय कथंभूतस्त्वम् । रक्षसां हिंसापराणामपि भागे संविभागेऽस्थिरश्चञ्चलः । दानादावपि. सर्वलो (प)कहित- हेतुना कीलितः । पुनः कथंभूतः । प्रभावितः सर्वजनोपलक्षितो दम इन्द्रियजयो यस्य । तथा प्रभो कथंभूत । भोगातत्व भोगा. अतत्त्वं यस्य । आभासमानखात् । पुनः कथंभूत प्रभो, सदस्थिप सन्ति शोभनांन्यस्थीनि भूषणतया पाति रक्षतीति तादृश ॥ अर्धभ्रमः ॥२३. कार्ष्ण्येन भगवन्नास्ति तव कण्ठच्छवेः समा कालिकाकालिकालालीलीलाका परवीरप ।। २४ त्रिशूलबन्धः ॥ परा उत्कृष्टा ये वीरास्तापः पाति तादृश परवीरप । 'वीतरागभयद्वेषो रहितः सर्व- संशयैः । सर्वभूतानुकम्पी च वीर इत्युच्यते बुधैः । इति । तव संबन्धिन्याः कण्ठच्छवेः कान्या समा अस्ति । कीदृशी। कालयः तथा काकानामालयः पतयः तथा कालाना- माली च तासामिव लीला विच्छित्तिर्यस्यास्तादशी कृष्णत्वेन ॥ २४ ॥