पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/४३

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईश्वरशतकम् । को नामालं समर्थो भवति । अपि तु न कश्चित । कुले गृहे। शरीर इत्यर्थः । कुले शरीरे लोले अस्थिरे सति यतः कलिकाले याः कलास्ताभिर्यदलीकं तदेव केलिः खेलनं यस्य । तथा कलकलैनानाविधोत्कलिकाभिराकुले क्षुभिते । तथा काले मृत्यौ जाग्रती- त्यर्थः । तथा अलयो भ्रमरास्तथा कोकिलाश्च तद्वत्काले तामसे ॥ २९॥ आभातिभाति भवतस्तव कालमार्कि संचिन्तय स्मररोग्रतनुं कृशाङ्गम् । मां मास्य भुञ्च भव भीममलं कलङ्कं हन्तातिकष्टममराधिप देव तेन ।। ३० ॥ घुनरुक्तवदाभासः सर्वपदाश्रयः ।। हे स्मरहर, है देव, हे अमराधिप, हे भव, एतान्यामन्त्रणानि भीतोक्त्या च पुनरू- क्तानि तवाभा शोभा अतिभाति अतिशयेन भाति । आर्कि उग्रतर्नुं रौद्रशरीरं संचिन्तय । कथंभूतमार्किम् , कालमतिमलीमसम् । तथा भवतो जन्महेतोः मां कृशाङ्गमतिमीत्या क्षा- मतनुं संचिन्तय। अतिदयालुतयेति शेषः । तेन हेतुना हन्ता वधकः तादृशानामुग्रशरीरा- णामपीत्यर्थः । त्वमस्य कालस्य भीमं भयदायकमतिकष्टं कलङ्क मा मुञ्च । कलङ्कं सर्वथा जहीत्यर्थः । अत्र च आभाति भाति, भवतः तव, कालं आर्कि, संचिन्तय स्मर, हर उग्र, तनुं कृशाङ्गं, मां मा, अस्य मुञ्च, भव भीम, मलं कलङ्कं, हन्त अतिकष्टं, अमराधिप देव- तेन, इति सर्वपदाश्रयत्वं पुनरुक्तवदाभासस्य । देवतानासिनो देवतेनस्तदामन्त्रणम् ॥३० यजने वर धीसाररसामानससारस ! सरसासनमासाररसाधीरवने जय ।। ३१ ।। दक्ष दासवरासारनद मत्तकृतारव। वरताकृत्तमदन रसाराव सदाक्षद ॥ ३२ ॥ युग्मम् ॥ हे भगवन् , त्वं जय । किंभूत यजने यज्ञे वर उत्कृष्ट । तथा धीसाराणां योगिनां या रसा भूमिः सैव' मानसं तत्र सारस हंस । तथा दक्ष निपुणः । तथा दासानां निजभक्तानां वरा एव आसारस्तत्र नद सरोविशेष । तथा मत्तेषु कामाद्युन्मादयुक्तेषु कृत आरावस्था- णवाग्रूपो येन । तथा वरतया उत्कृष्टतया कृत्तो मदनो येन तादृशः । तथा रसों रस- युक्तः । अर्शआदित्वादच् । आरावः संजल्पो यस्य तदामन्त्रणम् । तथा सदा सर्वदा अं- क्षान्भवपाशरूपान् धूतपाशकान् यति हन्तीति तादृश सदाक्षद् । कस्मिन् । सरसासन मासार रसाधीरवने । सरसमासनं स्थितिर्येषां ते माया लक्ष्म्याः साराः रसायां भूमौ ये धीरास्त्वदेकताना भावुकास्तेषां वनं समूहस्तत्र । युगलकम् ॥ ३१॥ ३२ ॥३ तवैव मूर्तिः शिव धर्मराजसुहृत्समानामसुहृंत्समाना । शुभावहा तत्त्वजुषां निरस्तधनादराणां निधनादराणाम् ।। ३३