पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/६४

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। भृत्यानां कुत्र भक्तिः किमुचितमजयन्क्ष्मां नरेन्द्राः किमर्थ कस्मै भक्ता अजस्रं प्रविदधति नमः स्वामिने शंकरायः ॥ १० ॥ प्रहेलिकान्तर्लापिकाख्येनेति स्वामिने शंकरायेति पदच्छेदेनोत्तरम् ।। यथा-केन क्रौञ्चः शैलो विभिन्नः । अत्रोत्तरम्---स्वामिना इति कुमारेण । कं अ- वनतगताः । कं नत्वा गताः । लोकाः इति शेषः । अत्रोत्तरम्-ईशं महादेवम् । के दिनेशस्य स्वेस्तीक्ष्माः । अत्रोत्तरम् कराः रश्मयः । अन्तस्थानों आद्यक्षरं किम् । अत्रोत्तरम-य इति । द्विजकुलं ब्राह्मणवर्गः अधिकां श्रेष्ठामग्र्यां कां जातिं वक्ति । अत्रोत्तरम्-स्वाम् । भृत्यानां कुत्रभक्तिः । अत्रोत्तरम्-इने स्वामिनि । किमुचितं युक्तम् । अत्रोत्तरम् शं कल्याणम् । राजानः क्ष्मां भूमिं किमर्थमजयन् । अत्रोत्त- रम्-कराय प्रजाभ्यो ग्राह्यवल्यर्थम् । भक्ताः कस्मै नमः अजस्रं प्रविदधति । अत्रो- त्तरम्-शंकराय महादेवाय । इति स्पष्टः प्रहेलिकार्थः ॥ १०॥ रिपुरोषारोपपर प्रोरुपापपरैररम् । रोरैरपाररूपैरापपे पुररिपो पुरा ॥ १०१ ॥ व्द्यक्षरः।। हे पुररिपो । कथंभूत । रिपुरोपारोपपर शत्रुकुन्तारोपणे उद्युक्त । पुरा पूर्वं प्राग्ज- न्मनः प्रभृति अपाररूपैः अनन्तैः दौर्गत्यक्लेशैः प्रोरूपापपरैः प्रकर्षेण उरूणि यानि पा- पानि तान्येव परं परमार्थों यत्र तथाविधैः पापैः प्राक्कर्मवैचित्र्यादेव जन्मादिदौर्गत्योप लब्धेः । अरमत्यर्थम् ॥ ९०१॥ अपरुषो गतनिर्विभवासवः स्वयमिनः श्रितसत्यकलादयः । क्षततमा असुहृत्कलितापदस्त्वमसि नाथ वयं च तवार्थिनः।। १०२॥ हे नाथ, त्वं अपरुषः, न परुषः अपरुषः । पारुष्यरहितः । व्यं च संसारं प्रति अपगतरुषः । तेनैव बाधितत्वात् । त्वं गतनिर्विभवासवः, गतो निर्विभः निष्कान्तिः वासव इन्द्रो यस्मात् । त्वत्सकाशाद्वासवः... स्तम्भनानिष्प्रतिमत्वं गतः । इन्द्र' इ. त्यर्थः । वयं च गतनिर्विभवासवः, गता अस्मभ्यं पशुभ्य इव इति शेषः। निर्विभवाः असवः प्राणाः येषां ते । तथा त्वं स्वयमिनः सर्वेश्वरः । वयं स्वयमिनः । त्वं श्रित- सत्यकलादयः, सत्यकला च दया च [श्रि)ते सत्यकलादये येन सः । वयं च श्रिताः सत्यकलादयः क्वचियद्वहारार्थं सत्यं क्वचिच्च कलादयो यैः तादृशाः । तथा त्वं क्षत- तमाः, क्षतं तमो येन सः । वयं च क्षततमः, अतिशयेन क्षताः। त्वं अमुहृतां बम- भटानां युद्धरूपेण कलितापदं ददाति सः। वयं च असुह्रद्भिरमित्रैः कलिता आपदो येषां तादृशाः वयं च तवार्थिनः याड्याचाराः सेवकाः पालनीयाः इति प्रार्थयमाना... वि. ज्ञप्तिः । इत्येकवचनबहुवचनश्लोकः । उक्तं चालंकारिकैः श्लेषलक्षणे---'वर्णपदलिङ्गभा- षाप्रकृतिविभक्तिवचनानामष्टविधः श्लेषः । १०२॥