पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/६७

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईश्वरशतकम् प्रति अर्थित्वस्य अन्तरङ्गो भविष्यतीति । भवजासंसारजात् । ततः तमव रक्ष ।हितः सन् । अमाय मायावर्जित । सत्यानुतिर्यस्य तत्संबोधनम् । यमं मिमान हिंसन् । यमा- दागतं यदकृत्यं तदहि । येन नयेति, विचारयेत्यर्थः । तुभ्यं नमामि । नुत्याकृता आ- गमाः सर्वजनोपदेशार्थं शास्त्राणि येन तस्मै । वै सत्ये चैश्वर्यै च । एत कचरवर्ण, हे भगवन् , ज्ञ अनन्त स्वामिन् । ततः सात्वतं(?) आज्ञया चाररुचा मणिप्रदीप्त्यात्यर्थव- धान । यमनियममयेत्यर्थः । अतो हेतोर्यदा समुक्त्या यत्कारित्वेन क्षमैमत् () सतः सकाशाद्धावतः श्रमणात् अन्यः तनुमः अल्पश्रीकः नास्ति । तुभ्यं (न) ते नम्रे विषये अनुत्तममोक्षदाय उत्कृष्टमोक्षदायिने एवंविधाय नमः । हे शर्व (सर्वपते) यताकृते सं. युतात्मन्, निजेतः निःशेषेण जयनशील, इन स्वामिन् , मया वशताकृता आपत्तता- कारिणा, पर्वतजे निवासे सेवा न कृता । अभितः समन्तात् भीर्यस्य तथाविधेन ! सदा कृताय पुण्यसंचयायार्थम् । न विद्यते मदो यस्यां तादृशसे(व)कमपि मां कृपया अवेति पूर्वोक्तवाक्यार्थः । चतुर्भिः कुलकम् (कालापकम् ) ॥ १०८ ॥ १०९ ११0 महामते मन्त्रपते परं पदं विना विभुं विन्दति कोऽतिभूतिमान् । कृपाकृते कृत्तयमाव मायते नमो नमो नम्रहिते हि पाहि माम् ॥ ११२॥ हे महामते विशुद्धरणे दक्ष, तथा मन्त्रपवे ससप्ततिकोटींना मन्त्राणां प्रभुरव्ययः' इत्यागमे । त्वां प्रभुं विना परिहत्य को जनः परं पदं मुक्तिरूपं विन्दति लभते । अति- शयेन भूतिमान् । अष्टविधैश्वर्ययुक्तः । नम्रहितप्राण... यदा त्वेव मां पाहि रक्ष (मा) यते, तुभ्यं कृपाकृते करुणापराय । कृत्त(य]माय छिन्नकालाय नमः । चतुर्महा- देवस्वस्तिकबन्धः । ११२ ॥ भो भो भविभुमावीभविभावैभव भीभुवः । भवाव भवया भाविभवामिभवभावभित् ।। ११३ ॥ भो भो भव महेश्वर, भानां नक्षत्राणां विभुः चन्द्रः । जूटेन्दुरित्यर्थः । तस्य [आ] भा दीप्तयः, ताभिर्विगता इभस्य गजासुरस्य विभा वैभवं यस्मातादृश, त्वमव रक्ष। मामित्यर्थः ।..... अर्थः प्रकरणं लिङ्गम्' इत्यलंकारज्ञः । भावीयः भवाभिभवः संसा- रखलीकारतस्य यो भावः सत्ता तद्भित् । भव वाशब्दो विकल्पे । 'भो भोः' इति - धानामन्त्रो । अव (र]क्ष । कृतान्तात् । मियो भयस्य (भवस्य) भूरुत्पत्तिस्थानम् ॥ द्यक्षरोऽयं श्लोकः ॥ ११३ ॥ इति श्रीमहाकव्यवतारकृतमीश्वरशतकं सटीकं समाप्तम्