काव्यमाला।
मालत्याः स्रजि गुम्पितानि कुटजान्यप्यामुवन्ति स्फुटं विद्वद्वृन्दशिरोधिरोहणकृतामुच्चैस्तरामुन्नतिम् ॥ १४ ॥
अङ्के किं न कलङ्कतामपि गतं धत्ते मृगं चन्द्रमाः किं वा शल्यमिवान्तरा वहति नो मैनाकमम्भोनिधिः । जायन्ते तरवो दहन्तमनलं वृष्टेः स्थितं कोटरे किं किं नाश्रितपालनाय सहते कष्टं शरण्यो जनः ॥ १५ ॥
स्फीता शीतांशुकान्तिर्मुदमथ कुमुदान्यापुराशा विकाशा- नाजग्मुर्वारिमुग्भिः प्रखरमुखरता दूरतो द्रागपास्ता । नैर्मल्यं पारि भेजे शरदुदयदिनारम्भ युष्मत्प्रसादा- त्स्रोतः स्रोतस्वतीनां कथय कथमहो क्षैण्यमभ्येति भूयः ॥ १६ ॥
विश्वोपकारकरणाय गुरुप्रयत्ना- त्सृष्टः सरोरुहभुवा स्फुटमम्बुवाहः । धाराः स्वयं पुनरयं परितो विमुञ्च- न्किं नाभिषिञ्चति लतां विपिने विषस्य ।। १७ ।।
चञ्चू चारुतरे चिराय विहिते मञ्जिष्ठरागारुणे पक्षौ चापि कृतौ हरिन्मणिनिभौ दूर्वाद्रवालेपनैः । काकैवं भवता शुकस्य समता निर्बन्धतो निर्मिता सा संसारमनोविनोदजननी वाणी क्व लभ्या पुनः ॥ १८ ॥
यस्मिन्नम्बुरुहाणि जातसुदृढप्रेमाणि यस्मिन्घना- नन्दं विन्दति चक्रवाकपटली यस्मिन्प्रसन्ना दिशः । तस्मिन्विश्वविकाशितेजसि रवौ रज्यत्युलूको न चे- द्धानिः कैव तदा रवेः परमसौ हास्यास्पदं जायते ॥ १९ ॥
म्लानान्भूमिरुहोऽभिषिञ्च परितः शुष्काः स्रवन्तीः पुन- र्धाराभिः परिपूरय प्रतिदिशं संप्लावयोर्वीमिमाम् । अम्भोवाह परं त्वकीर्तिदमिदं पानीयपानाशया
स्तोकोऽसौ भवदेकवृत्तिरनिशं यद्रारटीत्याकुलः ॥ २०॥