पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/९२

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। यद्दीक्षामिः कपर्दी प्रथमपरिवृढो भैक्ष्यवृत्तिः कपाली सोऽपि श्रीमान्विचित्रं सपदि च जगतामीश्वरोऽभूत्सुखेन ।॥ ५५ ॥ वक्षःस्थं दितिजरिपोस्तवाभिवन्दे तारुण्योदधिजमुरोजकौस्तुभं तम् । यस्थाने 'स्मरजनक महो हि किंचि- त्संमोहं सपदि महेशितुश्चकार ।। ५६ ।। तारुण्याम्भोधिजन्मा दलितसुमकरः कामदस्ते प्रकामं काम यच्छत्वपर्णे पृथुहृदयजनुः पारिजातद्रुजातः । दैत्यवातातपघ्नः पदगतजगतीं छायया स्वै रसौधै रक्षंस्तृप्तिं च कुर्वन्भवहृदयमहानन्दने नन्दते यः ।। ५७ ॥ मातः स्तन्यमधु स्तनस्थमनघं यच्छत्वजस्रं तव प्रौढोल्लासमखण्डितं. यशुजनुःपाशच्छिदं सुन्दरि । यत्पानं गणपे प्रकुर्वति शिशौ चेतोदृशौ पश्यतः शंभोर्मुग्धमभूद्बभूवतुरहो व्याधूर्णिते च क्षणात् ।। ५८ ॥ शैलेलापालबाले नुम इह विबुधप्राणजीवातुमूर्ति क्षीरोदन्वत्प्रभूतं भवगदहमुरोजन्मधन्वन्तरिं ते । यस्योपास्तिप्रभावात्पितमहनगतो वासुकिं कालकूटं कण्ठे बिभ्रच्च शूली नयनगहुलभुक्सोऽपि मृत्युंजयोऽभूत्।।५९॥ चञ्चन्नीलामचोलीसलिलदपटलीलीनमम्लानमाला- लोलाल्पाङ्कं दधानं धरणिधरसुते नौमि ते तं कुचेन्दुम् । यस्यालोकैर्विनिद्रं भवति भवमनः कैरवं हर्षितं च क्षीरासारामृतौघं रसवदनमुखैः पातुकामैश्चकोरैः ॥ ६० ॥ क्षीराशसंसकलकामदभावके ते. वक्षोजनुः सुरभिरूपमकं निहन्तु यत्पातृषण्मुखगजास्यहरीन्द्रमुख्या वत्सा रसस्वरसनावसनैर्विरेजुः ॥ ६१ ॥