पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१०

एतत् पृष्ठम् परिष्कृतम् अस्ति
महागणपतिस्तोत्रम्।


त्रैलोक्येष्टविधानवर्णसुभगं त्रिभुवनशुभविध्यक्षरमनोज्ञम् । पद्मरागोपयं पद्मरागो लोहि- तकस्तदुपमं प्रशस्तिद्वयं यो धत्ते ख गणानां पतिर्देवः सततं श्रियमातनोतु । यथा मृदम्बुलिप्ते दारुफलके रक्तचूर्णं दत्त्वाक्षराणि, तथा दानाम्बुलिप्ते सिन्दूरवति कुम्भस्थले भ्रमरा इत्युक्तं भवति ॥

भ्राम्यन्मन्दरघूर्णनापरवशक्षीराब्धिवीचिच्छटा-
सच्छायाश्चलचामरव्यतिकरश्रीगर्वसर्वंकषाः ।
दिक्कान्ताधनसारचन्दनरसासाराः श्रयन्तां मनः
खच्छन्दप्रसरप्रलिप्तवियतो हेरम्बदन्तत्विषः ॥ ६ ॥

 हेरम्बदन्तत्विपो मनः श्रयन्ताम् । किंभूताः । भ्राम्यतो मन्दरस्य धूर्णनावृत्तयस्त- दायत्तस्य क्षीराब्धेवींचयो लहर्यस्तासां छटा अग्रभागास्तैः सदृशाः । पुनः कीदृशाः। चलचामरव्यतिकर श्रीगर्वसर्वकृषाः । व्यतिकरो व्यतिपङ्गः । दिक्कान्तेत्यादिरूपकम् । घ- नसारः कर्पूरः। तथा स्वच्छन्दप्रसारप्रलिप्तवियतोऽनल्पसंचाराकीर्णाकाशाः । एतेन त्विषां बहुत्वं व्यज्यते ॥

मुक्ताजालकरम्बितप्रविकसन्माणिक्यपुञ्जच्छटा-
कान्ताः कम्बुकदम्बचुम्बितघनाभोगप्रवालोपमाः ।
ज्योत्स्नापूरतरङ्गमन्थरतरसंध्यावयस्याश्चिरं
हेरम्बस्य जयन्ति दन्तकिरणाकीर्णाः शरीरत्विषः ॥ ७॥

 मौक्तिकसमूहमिश्रितप्रधीप्तमाणिक्यसमूहच्छटावत्कान्ता मनोहराः । शङ्गसमूहसंगत- विस्तीर्णविदुमसमा:: । योलापूरतर मन्धरं तरन्ती चासौ अध्या च तस्या वयस्याः साभ्यासत्यः । एतादृशा हेरम्बस्य दन्तकिरणैर्व्याप्ताः शरीरत्विषश्चिरं जयन्ति॥

शुण्डाग्राकलितेन हेमकलशेनावर्जितेन क्षर-
न्नानारत्नचयेन साधकजनान्संभावयन्कोटिशः।
दानामोदविनोदलब्धमधुपप्रोत्सारणाविर्मव-
त्कर्णान्दोलनखेलनो विजयते देवो गणग्रामणीः ॥ ८॥

 शुण्डाप्रधृतसुवर्णकलशसंगृहीतेन क्षरता बहुत्लावाद्बहिरपि निर्गच्छता मुकामाणिक्या- दिरत्नसमूहेन कोटिशः साधकजनान्संभावयन्नसंख्यातानुपासकान्संपदा वर्धयन् । दाने- त्यादि । आमोदो गन्धहर्षयोः । प्रोत्सारणमुच्चाटनं तदर्थमाविर्भवत्कर्णान्दोलनकोडः। गणानामिश्वरो देवो विजयते ॥

हेरम्बं प्रणमामि यस्य पुरतः शाण्डिल्यमूले श्रिया
विभत्याम्बुरुहे समं मधुरिपुस्ते शङ्खचक्रे वहन् ।