वेधाः कथं हरिः कथमिति तु प्रश्ने वयं मूकाः ।
शिवमेकं जानीमो न शिवादन्यं विजानीमः ॥ ९३ ॥
दारुणमसिपत्नरवनं दारुणतममन्धतामिस्रम् ।
का वा ततः क्षतिर्नः शैवा वयमा चतुर्वदनात् ॥ ९४ ॥
कृतदीक्षो धोरमखे कुलकूटस्थो भरद्वाजः ।
विद्येश्वरेषु कश्चन पितामहो न इति विस्रम्भः ॥ ९५ ॥
कलहः कदापि मास्त्विति कलितशरीरैक्पयोः शिवयोः ।
अहमस्म्यहमस्मीति प्राप्तः कल्हो मम त्राणे ।। ९६ ॥
नरकायापि न भोगान्नराधमायापि नान्यसुरान् ।
मन्यन्ते कतिचिदमी माहेश्वरमाश्रिता योगम् ॥ ९७ ॥
ज्ञातुं हातुं विषयं श्रोतुं मन्तुं गृहीतुमात्मानम् ।
वत्सा यदि न हि घटते तत्साधयताविमुक्ताय ॥ ९८ ॥
सांख्यं योगं निगमा भक्तिः कर्म प्रतीतिरिति ।
एकत्र सकलमेतत्केवलमविमुक्तमेकत्र ॥ ९९ ॥
बद्धः कस्ते वक्ष्यति मुक्तो मुक्तिं विजानाति ।
यास्यसि चेदविमुक्तं ज्ञास्यसि विश्वेश्वरस्य मुखात् ॥ १० ॥
न गृहीतं श्रुतिहृदयं नचन गृहीतं परिप्लवं हृदयम् ।
इच्छामि च धाम परं गच्छामि तु विश्वनाथपुरीम् ॥ १०१ ॥
इति श्रीमदप्पयदीक्षितविरचितं वैराग्यशतकं संपूर्णम् ।
पण्डितराजश्रीजगन्नाथकृता
[१]अमृतलहरिः।
मातः पातकपातकारिणि तव प्रातः प्रयातस्तटं
यः कालिन्दि महेन्द्रनीलपटलस्निग्धां तनुं वीक्षते ।
तस्मारोहति किं न धन्यजनुषः स्वान्तं नितान्तोल्लस-
न्नीलाम्भोधरवृन्दवन्दितरुचिर्देवो रमावल्लभः ॥ १ ॥
१. यमुनास्तुतिरूपोऽयं ग्रन्थः,
- ↑ 1