पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/११४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०७
वक्रोक्तिपञ्चाशिका।


नो। काक्वा अपि त्वस्तीति । अथ च । नो आगोऽस्ति नापराधोऽस्ति । अपि ख- स्वीति । है सुभ्रूः , अवितथं सत्यं नाहं ब्रुवे । काक्वा अपि तु सत्यं ब्रुचे । अपरत्राविद्यमान उत्तमो यस्मात्स तादृशोऽनुत्तमो ना पुरुषः । परमपुरुष इत्यर्थः॥

संध्यायामिह सन्नताङ्गि भक्ती कमान्मुधा खेदिनी
साधु ध्यायसि का हसन्कुटिलता नाङ्गेषु मे कुत्रचित् ।
हन्ताहं भवतीं न किंचिदथवा वामस्वभावां ब्रुवे
मां हन्तासि किमर्थमित्यभिहितो देव्या हरः पातु वः ॥ १९ ॥

इहास्यां संध्यायां प्रेयसीति भ्रान्त्या संनताङ्गि कस्मान्निरर्थकं खेदिनी । अपरत्र हे नताङ्गि, हसन्स्मयन्नहं संध्यायामि सम्यक्विन्तयामि । संशब्दस्य सम्यगर्थः । नतता कुटिलत्वम् । हन्त इति खेदे । वक्रोक्तो तु हन्ताहम् ॥

संसक्तो बहुलक्षपाटनविधौ किं वं श्मशानेऽधुना
पाटयन्ते न मया बहूनि दयिते लक्षाणि ते कुत्रचित् ।
सूक्तौ ते कृतपुङ्खता कथय किं पुङ्खेन तस्यां भवे-
दित्यद्रीन्द्रसुतां गिरा शशिकलामौलिर्जयन्पातु वः ॥२०॥

बहुलक्षपाटनविधी बहुलक्षपायां कृष्णपक्षनिशायामटनविधौ भ्रमणे । अपरत्र बहूना लक्षाणां शरव्याणां पाटने मेदे । 'लक्ष लक्ष्यं शरव्यं च' इत्यमरः । कृतपुङ्गः विक्षितः, विहितपुङ्गश्च ॥

विभन्नाकुलयस्वलीव भयदां कङ्कालमालामिमा-
मेकत्वात्रिजगत्यपि प्रियतमे कालस्य पङ्क्तिः कुतः ।
कङ्कालोचितमेतदत्र वचनं कङ्कैः किमालोचितं
पायादित्यवचाः कृतेन्दुकलिकोतंसेन काली जगत् ॥ २१ ॥

कङ्कालमालां शवशरीरास्थिमालाम् । 'स्थाच्छरीरास्थ्रि कङ्कालः' इत्यमरः। बिभ्रत् । वक्रिक्तौ तु कालमालां बिभ्रत् । के नाकुलयसि । कङ्कालानामुचितं योग्यम्, कङ्कैश्च पक्षिविशेषेरालोचितम् । अवचा मूका । काली भवानी ॥ <poem> विस्पष्टां श्रियमेति ते हिमकराक्रान्तं जटामण्डलं नैवासिन्नहयो न चापि मकराः सन्ति प्रिये कुत्रचित् । ऋक्षाणामधिपं ब्रुवे तदधुनैवाहूयतां जाम्बवा- न्नन्दिन्नद्रिसुतां जयन्निति विभुः सूक्त्या चिरं पातु वः ॥२२॥

हिमकराकान्तं हिमकरेण शशिनाकान्तम् । परत्र त्वकारप्रश्लेषणाहिमकराक्रान्त-.