पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/११७

एतत् पृष्ठम् परिष्कृतम् अस्ति
११०
काव्यमाला।

ही नाहं भवतोऽतिवक्रवचसा दातुं प्रवीणोत्तरं
का ते सुन्दरि हीनता ननु नता सर्वा त्रिलोक्येव ते ।
नासत्योक्तिरियं कुतोऽत्र घटते दस्राभिधानागमो
मुष्णीतादधमादिजामवचसं कुर्वपिनाकीति वः ॥ ३१ ॥

हीति दोषसूचनेऽव्ययम् । नेति निषेधे । उत्तरत्र हीनोना । यस्याः सा त्रिलोकी प्रणता स्यात्तस्या हीनता न संभाव्यते । न असत्यस्यानृतस्योक्तिर्नासयोक्तिः, नासत्यौ च अश्विनौ ॥

 
द्यूतेऽस्मिन्विजितो मया ननु भवानूर्ध्वं मुहूर्ताद्ध्रुवं
कोऽत्र स्यात्कथयक्षसङ्ग उदितः शैलो न वेत्सीति किम् ।
प्रत्यग्रे किमिवाद्मि शंस दयिते भिक्षां कपालेऽधुना
सूक्त्येत्यद्रिजया जितोऽनृजुवचास्त्रासीष्ट वः शंकरः ॥ ३२ ॥

धुर्व निश्चितम्, ध्रुवं च नक्षत्रम् । भवान्मया जित इत्युसरे जयतिद्विकर्मकः ।ऋ- क्षसङ्को नक्षत्रसङ्गः । उत्तरे शैलस्याक्षैरच्छभल्लैः सङ्गः । न वेत्सि न जानाशि, नये नूतने चात्सि भक्षयसि । “अद भक्षणे । अद्भि भक्षयामि । सिक्षां कपालेऽधुनेति पार्वत्युक्ति ।

 
सन्नागारहिता तनोति भवतो भीतिं ममैषा तनु-
र्भग्नं सुन्दरि सद्म किं भवति मे यसै हितैषा तनुः ।
चिन्ता मेऽत्र न वेश्मनि प्रियतमे किं चिन्तयास्यानद-
प्राव्णीत्यद्रिसुतां जयन्नवतु वः सूक्या गिरीशोऽनिशम् ॥ ३३ ॥

सन्नागारहिता सद्भिर्नागैररहिता सन्नागारहिता, सक्ष् भग्ने चागारे गृहे हितानुकूला। वेश्मनि न निषेधे वेश्मनि गृहे, नवे नूतनेऽश्मन्युपके च ॥

 
आ संसारमसौ शिरस्थविरतं गङ्गा यहत्त्येव ते
नेष्वासं च बिभर्ति सारमिति किं जानासि नाभ्रान्तिकम् ।
स्यादभ्रस्य किमन्तिकेन कितव ज्ञातेन ते सांप्रतं
संपत्त्यै गिरिशोऽस्तु वः कुटिलया वाण्या भवान्या जितः ॥३४॥

आ संसारादासंसारम् , अस्यन्तेऽनेन शरा इभ्वासं धनुः, सारमुत्कृष्टम् । अत्रान्तिकं भ्रान्तिरहितं निःसंशयम्, अभ्रस्यान्तिकं समीपं च ।।

 
न क्रीडामहमुत्सहेऽत्र भवता सार्धं पयोधेर्नव-
प्रस्तावः क इवात्र नूतनमथ प्रत्नंं न जानाम्यहम् ।