पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
११६
काव्यमाला।


अलंकृतिरुचितस्थानविन्यासादलंकर्तुं क्षमा भवति, अन्यथा त्वलंकृति- व्यपदेशमेव न लभते । तद्वदौचित्यादपरिच्युता गुणा गुणतामासादयन्ति, अन्यथा पुनरगुणा एव । यदाह-

'कण्ठे मेखलया नितम्बफलके तारेण हारेण वा
पाणौ नूपुरबन्धनेन चरणे केयूरपाशेन वा ।
शौर्येण प्रणते रिपो करुणया नायान्ति के हास्यत्ता-
मौचित्येन विना रुचिं प्रतनुते नालंकृतिर्नो गुणाः ॥'

किं तदौचित्यमित्याह-

उचितं प्राहुराचार्याः सदृशं किल यस यत् ।
उचितस्य च यो भावस्तदौचित्यं प्रचक्षते ॥ ७॥

यस्किल यस्यानुरूपं तदुचितमुच्यते, तस्य भावमौचित्यं कथयन्ति । अधुना सकलकाव्यशरीरजीवितभूतस्यौचित्यस्य प्राधान्येनोपलभ्यां स्थिति दर्शयितुमाह-

पदे वाक्ये प्रवन्धार्थे गुणेऽलंकरणे रसे।
क्रियायां कारके लिङ्गे वचने च विशेषणे ॥८॥

उपसर्गेनिपाते च काले देशे कुले व्रते ।
तत्त्वे तत्त्वेऽप्यभिप्राये खभावे सारसंग्रहे ॥९॥

प्रतिभायामवस्थायां विचारे नाम्र्यथाशिषि ।
काव्यस्याङ्गेषु च प्राहुरौचित्यं व्यापि जीवितम् ॥ १०॥

एतेषु पदप्रभृतिषु स्थानेषु मर्मस्विव काव्यस सकलशरीरव्यापि जीवितमौचित्यं स्फुटत्वेन स्फुरदवभासते । तेषुदाहरणानि क्रमेण दर्शयितुमाह--

तिलकं बिभ्रती सूक्तिर्भात्येकमुचितं पदम् ।
चन्द्राननेव कस्तूरीकृतं श्यामेव चान्दनम् ॥११॥

एकमेवोचितं पदं तिलकायमानं बिभ्राणा सूक्तिः समुचितपरमागशी- भातिशयेन रुचिरतामावहति ।