इदं व्यस्तन्यासं लथभुजलताक्षेपवलनैः
कृशाङ्ग्याः संतापं वदति बिसिनीपञ्रशयनम् ॥'
अत्र सागरिकाया विरहावस्थासूचकम् 'कृशाङ्ग्याः ' इति पदं परम- मौचित्यं पुष्णाति । वाक्यगतमौचित्यं दर्शयितुमाह-
औचित्यरचितं वाक्यं सततं संमतं सताम् ।
त्यागोदग्रमिवैश्वर्यं शीलोज्ज्वलमिव श्रुतम् ॥ १२ ॥
औचित्यरचितं वाक्यं काव्यविवेकविचक्षणानामभिमततमम् ।
यथा मम विनयवल्ल्याम्----
'देवो दयावान्विजयो जितात्मा यमौ मनःसंयममाननीयौ ।
इति ब्रुवाणः स्वभुजं प्रमार्ष्टि यः कीचकाकालिककालदण्डम् ।।
धीरः स किर्मीरजटासुरारिः कुबेरशौर्यप्रशमोपदेष्टा ।
दृष्टो हिडिम्बादयितः कुरूणां पर्यन्तरेखागणनाकृतान्तः ।
(युग्मम्) अत्र भीमस्य भीमचरितोचितकीचकाकालिककालदण्डहिडिम्बादयिता. दिभिः पदैरुन्निद्रौद्ररसस्वरूपानुरूपो वाक्यार्थः सजीव इवावभासते। यथा वा राजशेखरस्य-
'संबन्धी पुरुभूभुजां मनसिजव्यापारदीक्षागुरु-
गौराङ्गीवदनोपमापरिचितस्तारावधूवल्लभः ।
निश्चयः. बाणभट्ट एष खप्रभोः श्रीहर्षस्य नाम्ना रत्नावल्यादिग्रन्थान्कृतवानिति काश्मी- रकाः, पठन्ति च काव्यप्रकाशेऽपि 'श्रीहर्षादेर्वाणादीनामिव धनम्' इति. अन्यदेशीवास्तु धावककविः श्रीहर्षनाम्ना रनावलीं कृत्वा बहुधनं लब्धवानिति वदन्ति. अन्यदेशीयका- व्यप्रकाशपुस्तकेष्वपि 'श्रीहर्षादिर्धावकादीनामिव धनम् इत्येव पाठः काश्मीरकमते तु धावककविः शशशृङ्गायते. अन्यदेशीयपुस्तकपाठापेक्षया काश्मीरपुश्तकस्थपाठस किं- चिदधिकं प्रामाण्यम् , काव्यप्रकाशकर्तू राजानकममाटस्य काश्मीरदेशोत्पन्नत्वात् रत्ना - वलीश्लोका आनन्दवर्धनाचार्येणापि ध्वनिग्रन्थ उदाहृताः सन्ति ।. ख्रिस्तसंवत्सरीयाष्टम- शतकमध्यभागसमुत्पन्नेन कश्मीरमहीपतेर्जयापीडस्य मत्रिणा दामोदरागुप्तेनापि कुट्टनी- मतग्रन्थे रनावलीनाटिका विस्तरेण वर्णितास्ति. रनावलीप्रथमाङ्कस्था "उदयनगान्त- रितमियम्' इत्याद्यार्यापि प्रसङ्गागता तत्र गृहीतास्ति ।.