पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२१
औचित्यविचारचर्चा ।


गुणौचित्य दर्शयितुमाह-

प्रस्तुतार्थोचितः काव्ये भव्यः सौभाग्यवान्गुणः ।
स्सन्दतीन्दुरिवानन्दं संभोगावसरोदितः ॥ १४ ॥

प्रस्तुतस्यार्थस्यौचित्येनौजःप्रसादमाधुर्यसौकुमार्यादिलक्षणो गुणः काव्ये भव्यः सौभाग्यवत्तामवाप्तः सहृदयानन्दसंदोहमिन्दुरिव स्यन्दति ॥ यथा [१]भेट्टनारायणस्य-

'महाप्रलयमारुतक्षुभितपुष्करावर्तक-
प्रचण्डधनगर्जितप्रतिरवानुकारी मुहुः ।
रवः श्रवणभैरवः स्थागितरोदसीकंदरः
कुतोऽद्य समरोदधेरयमभूतपूर्वः पुरः ॥'

अत्रौजस्विनः भटमुकुटमणेरश्वत्थाम्नः स्फूर्जदूर्जितप्रतापानुरूपं वा- क्यमोजसा काव्यगुणेनोदप्रतामवाप्तं सहस्रगुणमिव विक्रमौचित्यगौरव- मावहति ॥ यथा वा भट्टवाणस्य-

'हारो जलार्द्रवसन नलिनीदहानि
प्रालेयशीकरमु चस्तुहिनांशुभासः ।
यस्येन्धनानि सरसानि च चन्दनानि
निर्वाणमेष्यति कथं स मनोभवाग्निः॥

अत्र विप्रलम्भभरभमग्नधैर्यायाः कादम्बर्या विरहव्यश्रावर्णना माधुर्य- सौकुमार्यादिगुणयोगेन पूर्णेन्दुवदनेव प्रियंवदत्वेन हृदयानन्ददायिनीं

दयिततमतामातनोति ॥


१. अयं वेणीसंहारकर्ता नारायणभट्टः ९९९ शके अर्थात् १०७७ मिने ख्रिस्तुसंव-
स्सरे कान्यकुब्जदेशाद्वजदेशं गत इति वङ्गदेशीयानां निश्चयः परंतु ख्रिस्तसंवत्सरीय-
नवमशतकमध्यभागसमुद्भतेनानन्दवर्धनाचार्येण बहवो वेणीसंहारश्लोकाः स्वक्रिये ध्वनि-
ग्रन्थे समुदाहृताः; तस्मान्नवमशतकमध्यभागादपि पूर्वमासीद्वेणीसंहारकर्ता भट्टनारायणः,
अतो वाङ्गदेशीयानां मतमत्र नादरणीयम्. २. बाणभट्टः ख्रिस्तसंवत्सरीयसप्तमशतकस्स
पूर्षमाग आसीत्, एतत्कृता त्वियं श्लोकबद्धा कादम्बरीकथा नाथाप्युपलब्धा.