पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४३
औचित्यविचारचर्चा।

 
सर्व चारुतरं न कस्य दयितं यस्मिंस्तु तद्भुज्यते
तन्मृन्निमितमाममाजनमिव क्षिप्रक्षयं जीवितम् ॥

अत्र युधिष्ठिरस्यासादितमहाविभूतेर्मयनिर्मितमणिमयसभाभिमानिनो विभवप्रभावे वर्ण्यमाने सकलभावाभावखरूपाभाववादोपदेशिनो महामु- नेराशयविचारावसरे यदुक्तं कुसुमसमयसमुपचितयौवनान्युपवनानि मकर- न्दामोदसुन्दरारविन्दिनीज्योत्स्नापटप्रावृतानि रत्नवलभीर्हाणि रमणीया रमण्यश्चेति सर्वमेतच्चारुतरं सर्वस्याभिमतम् । किं तु यस्मिन्भुज्यते तज्जी- वितमाममृत्पात्रनिःसारं क्षिप्रक्षयमिति तद्विशेष्यपदोत्कर्षकारिविशेषणपदो- दितसौन्दर्येण पर्यन्तनिःसारतानिर्वेदसंवादि स्फुरदौचित्यमातनोति ।। न तु यथा [१]भट्टलट्टनस्य-

'ग्रीमं द्विषन्तु जलदागममर्थयन्तां
ते संकटप्रकृतयो विकटास्तडागाः ।
अब्धेस्तु मुग्धशफरीचटुलाचलेन्द्र-
निष्कम्पकुक्षिपयसो द्वयमप्यचिन्त्यम् ॥'

मत्र ग्रीष्मं द्विषन्तु, मेघागमं संकटस्वभावा विकटा विस्तीर्णाश्च तटाकाः प्रार्थयन्ताम्, महाब्धेस्तु बालशफरीलोलाचलेन्द्रनिश्चलकुक्षिप- यसो ग्रीष्मघनागमावप्यगणनीयाविति यदुक्तम्, “तत्र तडागविशेषणयोः संकटविकटपदयोः परस्परविरुद्धार्थयोरनौचित्यं स्पष्टमवभासते। संकट- खभावस्य हि विकटत्वं विस्तीर्णत्वं नोपपद्यते । अथ खभावे संकटत्व- माकारे विपुलत्वं तदपि तटाकस्य निश्चेतनस्य स्वभावाभावादनुपपन्नमेव ।। उपसर्गौचित्यं दर्शयितुमाह-

योग्योपसर्गसंसर्गैर्निरर्गलगुणोचिता ।
सूक्तिर्विवर्धते संपत्सन्मार्गगमनैरिव ॥ २४ ॥

उचितैः प्रादिभिरूपसर्गः सूक्तिरन्नतिमासादयति । विभूतिरिव- सन्मार्गगमनैः ॥



१. एकलिन्पुस्तके 'भट्टवल्लभस्य इति पाठः,