पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४७
औचित्यविचारचर्चा ।


अत्र लुब्धकस्य धनुःसायकशिक्षागतिक्रौर्यगीतानि तथा यथा वनं निर्मृगं भविष्यतीति भविष्यत्कालः प्रकृतार्थपरिपोषेण हृदयसंवादौचित्य- मादधाति ।। न तु यथा वराहमिहिरस्थ--

क्षीणश्चन्द्रो विशति तरणेमण्डलं मासि मासि
लब्ध्वा कांचित्पुनरपि कलां दूरदूरानुवर्ती ।
संपूर्णश्चेत्कथमपि तदा स्पर्धयोदेति भानो-
र्नों दोर्जन्याद्विरमति जडो नापि दैन्याद्व्यरंसीत् ॥

अत्र रवेर्मण्डलं क्षीणः शशी प्रतिमासं प्रविशति ततः कांचिदाप्या- यिकां कलां प्राप्य दूरे दूरे भवति । परिपूर्णश्च तस्यैव स्पर्धयाभ्युदेति । दौर्जन्यान्न विरमति न च दैन्याद्व्यरंसी दित्येतो "विरमति’ "व्यरंसीत्" इति- परस्परासंगतं कालपदद्वयं चन्द्रस्य सदृशयोर्दौर्जेन्यदैन्ययोः सर्वकाल- मभिनिवृत्तयोर्यदुपन्यस्तं तत्र व्यरंसीदिति विरुद्धार्थत्वादनुचितमेव ॥ देशौचित्यं दर्शयितुमाह-

देशौचित्येन काव्यार्थः ससंवादेन शोभते ।
परं परिचयाशंसी व्यवहारः सतामिव ॥ २७ ॥

देशविषयौचित्येन हृदयसंवादिना काव्यार्थः सतां व्यवहार इव परि- चयसूचकः शोभते ॥ यथा भट्टभवभूतेः-

'पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां
विपर्यासं यातो घनविरलभावः क्षितिरुहाम् ।
बहोर्दृष्टं कालादपरमिव मन्ये वनमिदं
निवेशः शैलानां तदिदमिति बुद्धिं ढयति ।।

अत्र बहुभिर्वर्षसहस्त्रैरतिक्रान्तैः शम्बुकवधप्रसङ्गेन दण्डकारण्यं रामः पूर्वपरिचितं पुनः प्रविष्टः समन्तादवलोक्यैवं ब्रूते-'पुरा यत्र नदीनां

प्रवाहस्तत्रेदानीं तटम्, वृक्षाणां धनविरलत्वे विपर्ययश्चिरादृष्टं वनमिदमपूर्व-


१.सुभाषितावलायं श्लोको धाराधरस्य । </poem>