पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४७
काव्यमाला ।


मिव मन्ये, पर्वतसंनिवेशस्तु तदैवैतदिति बुद्धिं स्थिरीकरोति । इत्युक्ते चिरकालविपर्ययपरिवृत्तसंस्थानकाननवर्ण नया हदयसंवादी देशस्वभावः परममौचित्यमुद्द्योतयति ।। न तु यथा राजशेखरस्य-

काटीदशनाङ्कितः शितमहाराष्ट्रीकटाक्षाहतः
प्राढान्ध्रीस्तनपीडितः प्रणयिनीभ्राभङ्गवित्रासितः ।
लाटीबाह्रविवेष्टितश्च मलयस्त्रीतर्जनीतर्जितः
सोऽयं संप्रति राजशेखरकविर्वाराणासीं बाञ्छति ।।

अत्र कर्णाटमहाराष्ट्रान्ध्रलाटमलयालनासंभोगसुभगः कालेन गलित- रागमोहः संप्रति राजशेखरकविर्वाराणसीं गन्तुमिच्छतीयुक्ते शृङ्गाररस्स-. तरङ्गितवराजङ्गनाप्रसङ्गेऽनङ्गेनिरर्गलदक्षिणापथदेशोदेशमध्ये प्रणयिनीभ्रूम- ङवित्रासित इति देशोपलक्षणविरहितकवलप्रणयिनीपदेन देशौचित्यमुप-. चितमध्यनुचितता नीतम् ।। कुलौचित्य दर्शयितुमाह--

कुलोपचितमौचित्यं विशेषोत्कर्षकारणम् ।
काव्यस्य पुरुषस्येव प्रियं प्रायः सचेतसाम् ॥ २८ ॥

पुरुषस्येव काव्यस्य कुलोन्नतमौचित्यं सविशेषोत्कर्षजनकं प्रायेण बाहु- ल्येन सहृदयानामभिमतम् ॥ यथा कालिदासस्य-

'अथ स विषयव्यावृत्तात्मा यथविधि सूनवे
नृपतिककुदं दत्त्वा यूने सितातपवारणम् ।
मुनिवनतरुच्छायां देव्या तया सह शिश्रिये
गलित वयसामिक्ष्वाकृणामिदं हि कुलव्रतम् ॥

अत्र " अथ स राधा वृद्धास्तरुणाय सूनवे राज्यं प्रतिपाद्य तया देव्या सह, तपोषनं भेजे। विरक्तचेतसामिक्ष्वाकूणामन्ते हि कुलव्र्तमिदमेव’

इत्युक्ते भूतवर्तमानभाविनां तद्व्श्यानामैचित्यमुन्मीलितम् ॥


१.प्रसिद्धेषु राजशेखरग्रन्थेष्वयं श्लोको न प्राप्तः :