पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५०
काव्यमाला


तुल्यकुल्यद्वेषविजिगीपापरमेव वाक्यं भृशमनोचित्यमुद्भावयति । वरमेतत्ती- व्रव्रतकष्टं न तु स्वजनदैन्यया जनमिति संसारग्रन्थिथन्धागिमानोपन्यासः ग्मर्वन्भात्माथ्निपन्यासः ।। तत्वौचित्यं दर्शयितुमाह-

काव्यं हृदयसंवादि सत्यप्रत्ययनिश्चयात् ।
तत्वोचिताभिधानेन यात्युपादेयतां कवेः ॥ ३० ॥

तत्त्वोचित्ताख्यानेन कवेः सूक्तं सत्यप्रत्ययग्यैर्थासंवादि गृह्यतां याति ॥

यथा मम बौद्धाबदानलतिकायाम् ----

'दिवि भुषि फणिलोके शैशवे यैवने वा
जरसि निधनकाले गर्भशय्याश्रये वा ।
सहगमनसहिष्णोः सर्वधा देहभाजां
न हि भवति विनाशः कर्मणः प्राक्तनस्य ।'

अत्र प्राक्तनस्य कर्मणxलोवथे शशशीवनवृद्धत्वावस्थासु देहिनां सह गमने समर्थत्वान्न विनाशोऽस्तीत्युक्ते गुने नि:संशयसकलजनहृदयसंवा- दितत्त्वाख्यान मौचित्य ख्यापयति ॥ न तु यथा माघस्स-

[१]बुभुक्षितैत्व्याकरणं न भुज्यते न पौयते काव्यरसः पिपासितः ।
न विद्यया केनचिदुद्धृतं कुलं हिरण्यमेवार्जय निप्फलाः कलाः ॥’

अत्रार्यार्थितापरत्वेन धनमेवार्जय, क्षुचितैर्व्याकरणं न भुज्यते न च काव्यरसः पिपासितैः पीयते, न च विद्यया कुलं केनचिदुद्धृतमित्युक्ते सर्व- मेतद्दारिद्र्यदैन्यविद्रुतधैर्यकातरतया तत्त्वविरहितं विपरीतमपन्यस्तमनौचित्यं सयुक्तमेव । विद्यानामेव सर्वसंपत्प्रसविनीनां कुलोद्भरणक्षमत्वं नान्यस ॥ सत्वौचित्यं दर्शयितुमाह-

चमत्कारं करोत्येव पचा सच्चोचितं कवेः।
विचाररुचिरोदारचरितं सुमतेरिव ॥ ३१ ॥

सत्त्वोचितं कवेर्वचश्चमत्कारं करोति । सुमतेरिव विचार्यमाणं रुचिरमु- दारचरितम् ।।



१. मापकुते प्रसिद्धे शिशुपालवधाभिधे काव्ये नायं श्लोकः ॥,