पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९
राजेन्द्रकर्णपूरः।

 
नैवोदामकरः शशी न मकरः केतुस्थितो नो रति
स्तत्रापि त्वमहो समस्तरमणीमानव्यघो मन्मथः ॥ ४१ ॥

तन्मूर्तं भुवने मुहूर्तममृतं मन्ये भृशं वासरं
सारं वेद्मि तदेव सैव च गुणैरायामिनी यामिनी ।
श्रीवासो यशसां पदं सुमनसामप्यास्पदं संपदां
यत्रागच्छति गोचरं नयनयोः काश्मीरमीनध्वजः ॥ ४२ ॥

संजाते जलदात्ययेऽपि फणमृत्पर्यङ्कशय्यातलं
मा मा मुश्च मुकुन्द कान्तकमलादोः कन्दलालिङ्गितः ।
जागर्ति स्थितये सतां विरतये येनासतामप्ययं
संनद्धो गुणिमौलिमण्डनमणिर्भूमण्डलाखण्डलः ॥४३ ॥

श्लाधा राघव लाघवं तव गता दुष्यन्त वि[१]श्वं तव
म्लानिं याति यशो गता तव तथा पार्थ प्रथापार्थताम् ।
जातेऽसिन्गुणिवान्धवे न[२]रपतिश्यामाधवे क्ष्माधवे
कस्याप्यत्र न कर्ण कर्णपदवीं याता मवत्कीर्तयः ॥ ४४ ॥

ज्ञाता भूरियमम्बुराशिरसना किं नाम नालोचितं
तत्राखण्डलमण्डले मणिपुरे वार्तापि वृत्तैव नः ।
कान्तौ कीर्तिरतौ नये परिचये काव्यक्रमप्रक्रमे
यावत्क्वापि कदापि कोऽपि भवतः स्पर्धापरो नापरः ॥ ४५ ॥

एवं त्वामहमर्थये विरमितखाध्यायकौतूहलो
ब्रह्माण्डोदरभ[३]म्बुजासन पुनर्यत्नेन विस्तारय ।
देवस्यास्य यतो न माति विततं राकेन्दुरोचिर्लता-
लीलोन्मीलितकैरवोदरदलद्धौतावदातं यशः ॥ ४६ ॥

उर्वी मौर्वीकिणभृति भवद्दोष्णि बिभ्रत्यशेषां
शान्तक्लान्तिः किमपि कुरुते नर्मणा कर्म कूर्मः ।
कृत्वा वेलापुलिनलवलीपल्लवप्रासगोष्ठीं
दिङ्भाताङ्गाः सममथ सरिनाथपाथः पिबन्ति ॥ ४७ ॥



१. संपूर्णम्. २. महीपतिचन्द्रे. ३. हे ब्रह्मदेव.