देवस्यास्य शरन्निशाकरकरन्यक्कारपारंगमं
मात्येतत्कथमन्यथा परिणतं द्यावापृथिव्योर्यशः ॥ ७१ ॥
धिक्तं मल्लीकुसुमकलितं केलिकर्णावतंसं
ध्वंसं सोऽपि बजतु विफलो रत्नताट ङ्कटङ्कः ।
हे राजानः प्रकृतिसरलैः [१]शांभवैरेव सूक्तै-
र्युक्तः कर्तुं भवति भवतां केवलं कर्णपूरः ॥ ७२ ॥
उद्भिन्ना कलकण्ठकण्ठकुहरात्कर्णाभृतस्यन्दिनी
युक्ता यद्यपि मार्दवैकवसतिः सा काकलीहुंकृतिः ।
अन्यस्तन्वि तथापि ते पशुपतिप्लुष्टस्य जीवार्पणे
पञ्चेषोरुचितः प्रपञ्चितरसः पाकाञ्चितः पञ्चमः ॥ ७३ ॥
किं हारैः किमु कङ्कणैः किमु [२]सुमैः किं कर्णपूरैरलं
केयूरैमणिकुण्डलैरलमलं साडम्बरैरम्बरैः।
पुंसामेकमखण्डनं पुनरिदं शंभोर्मते मण्डनं
यन्निष्पीडितपार्वेणेन्दुशकलस्यन्दोपमाः सूक्तयः ॥ ७४ ॥
पीयूषद्रवहारिणी सुमनसां भ्रूलास्यविस्तारिणी
त्वत्सेवाभिरवापि काप्यभिनवा वाग्देवते भारती।
अस्त्येका तु कृताञ्जलेर्जननि मे शंभोरियं प्रार्थना
मद्वाचां क्वचिदस्तु वस्तुनिपुणः श्रोता सचेता जनः ॥ ७५ ॥
इति काश्मीरदेशोद्भवमहाकविश्रीशंभुविरचितो राजेन्द्रकर्णपूरः समाप्तः ।
[३]महाकविश्रीक्षेमेन्द्रविरचितः
कलाविलासः।
प्रथमः सर्गः।
अस्ति विशालं कमलाललितपरिष्वङ्गमङ्गलायतनम् ।
श्रीपतिवक्षःस्थलमिव रनोज्ज्वलमुज्ज्वलं नगरम् ॥१॥
१. शंभुकविसंबन्धिमिः. २. पुष्पैः ३ अनेकान्यकी व्यासवासापरनामा क्षेमेन्द्र
महाकविः कश्मीरदेशे श्रीमदनन्तरजम राज्यकाले समुपमः, यतोऽनेन सुवृता-