आश्रितजनतनयोऽयं तव विद्वन्निजसुताधिकः सत्यम् ।
न यथा प्रयाति नाशं तथास्य बुद्धिंं प्रयच्छ पराम् ॥ २० ॥
इति विनयनम्रशिरसा तेन वचो युक्तमुक्तमवधार्य ।
तमुवाच मूलदेवः प्रीतिप्रसरैः प्रसारितौष्ठाग्रः ॥ २१ ॥
आस्तामेष सुतस्ते मम भवने निज इव प्रयत्नपरः
ज्ञास्यति मयोपदिष्टं शनकैः सकलं कलाहृदयम् ॥ २२ ॥
इति तस्य शासनेन स्वसुतं निःक्षिप्य तद्गृहे मतिमान् ।
नत्वाथ सार्थवाहः प्रययौ निजमन्दिरं मुदितः ॥ २३ ॥
अथ शिथिलकिरणजाले धूसरकान्तिर्नि[१]रम्बरस्तरणिः ।
अभवदहश्यः शनकैर्धूर्तैरिव निर्जितः कित[२]वः ॥२४॥
अस्तमिते दिवसकरे तिमिर[३]भरद्विरदसंसक्ता ।
सिन्दूरपटलपाटलकान्तिरिवाग्रे बभौ संध्या ॥ २५ ॥
त्यक्तापि प्रतिदिवसं दिवसद्युतिरनुजगाम दिवसकरम् ।
न तु रक्तापि हि संध्या हृदयं जानाति कः स्त्रीणाम् ॥ २६ ॥
गगनाङ्गणकमलवने संध्यारागे गते शनैः कापि ।
अप्राप्तस्थितिविकलं बभ्राम [४]भ्रमरविभ्रमं तिमिरम् ॥ २७ ॥
तीक्ष्णांशुविरहमो[५]हैस्तिमिरैरिव मीलिता बभूव मही।
तीव्रोऽपि जनस्य सदायातः खलु वल्लभो भवति ॥ २८॥
रजनी रराज सिततरतारकमुक्ताकलापकृतशोभा ।
शबररमणीव परिचिततिमिरमयूरच्छदाभरणा ॥ २९ ॥
अथ पथिकवधूदहनः शनकैरुदभून्निशाकरालोकः ।
कुमुदप्रबोधदूतो व्यसनगुरुश्चक्रवाकीणाम् ॥ ३० ॥
मन्मथसितातपत्रं दिग्वनितास्फटिकदर्पणो विमलः ।
विरराज रजनिरमणीसिततिलको यामिनीनाथः ॥ ३१॥
१. अम्बंर वस्त्रमाकाश्च. २. धूतकारः, ३. तिमिरसमूह एप हस्ती. ४. भ्रमरसहशम्
५. मोहैरिव तिमिरैरित्यन्वयः मोहस्य कृष्णवर्णत्वं कविसंप्रदायसिद्धम्.