पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः
३९
कलाविलासः ।

मन्त्रबलेन भुजंगा मुग्धकुरङ्गाश्च कूटयन्त्रेण ।
स्थलजालेन विहंगा गृह्यन्ते मानवाश्च दम्भेन ।। ४४ ॥

जनहृदयविप्रलम्भो मायास्तम्भो जगज्जयारम्भः ।
जयति सदानुपलम्भो मायारम्भोदयो दम्भः ॥ ४५ ॥

सततावर्तभ्रान्ते दुःसहमायासहस्रकुटिलारे ।
मूलं दम्भो नाभिर्विपुलतरे चक्रिकाचके ॥ ४६ ॥

नयननिमीलनमूलः सुचिरं स्रानार्द्रचूलजलसिक्तः ।
दम्भतरुः शुचिकुसुमः सुखशतशाखाशतैः फलितः ॥ ४७ ॥

व्रतनियमैर्बकदम्भः संवृतनियमैश्च कूर्मजो दम्भः ।
निभृतगतिनयननियमैर्घोरो मार्जारजो दम्भः ॥ ४८॥

बकदम्भो दम्भपतिर्दम्भनरेन्द्रश्च कूर्मजो दम्भः ।
मार्जारदम्म एष प्राप्तो दम्भेषु चक्रवर्तित्वम् ॥ ४९ ॥

नीचनखश्मश्रुकचचूली जटिलः प्रलम्बकूर्चो वा ।
बहुमृत्तिकापिशाचः परिमितभाषी प्रयत्नपादत्रः ॥५०॥

स्थूलग्रन्थिपवित्रकपृष्ठार्पितहेमवाल्लीकः ।
कक्षार्पितपटपल्लवरुद्धभुजो भाण्डहस्त इव ॥ ५१ ॥

अङ्गुलिभङ्गविकल्पनविविधविवादप्रवृत्तपाण्डित्यः ।
जपचपलोष्ठः सजने ध्यानपरो नगररथ्यासु ॥ ५२ ॥

साभिनयाञ्चितचुलकैराचमनैः सुचिरमज्जनैस्तीर्थे ।
संरुद्धसकललोकः पुनः पुनः कर्णकोणसंस्पर्शी ॥ ५३॥

सीत्कृतदन्तनिनादावेदितहेमन्तदुःसहस्रानः ।
विस्तीर्णतिलकचर्चासूचितसर्वोपचारसुरपूजः ॥ ५४ ॥

शिरसा बिभर्ति कुसुमं विनिपतितां काकदृष्टिमित्र रचयन् ।
एवंरूपः पुरुषो यो यः स स दाम्भिको ज्ञेयः ॥ ५५ ॥

निर्गुणलोकप्रणतः सगुणे स्तब्धः स्वबन्धुषु द्वेषी ।
परजनकरुणाबन्धुः कीर्त्यर्थी दाम्भिकी धूर्तः ॥ ५६ ॥