पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१ सर्गः]
४१
कलाविलासः।

काष्ठस्तब्धग्रीवो जपचपलौष्ठः समाधिलीनाक्षः ।
रुद्राक्षवलयहस्तो मृत्परिपूर्ण वहनमात्रम् ॥ ७० ॥

नयनाञ्चलैः सकोपैर्भ्रुकुटीहुंकारवदनसंज्ञाभिः ।
बहुविधकदर्थनाभिः कथिताखिलहृदयवाञ्छितो मौनी ॥ ७१ ॥

रक्षन्परसंस्पर्शं शौचार्थी ब्रह्मलोकेऽपि ।
दम्भः पुरोऽस्य तस्थावुस्थित एवासनाकाङ्क्षी ॥ ७२ ॥

आकल्पेन सुमहता सहसास्य वशीकृताः परं तेन ।
सप्तर्षयोऽपि तस्मै प्रणतारतस्थुः कृताञ्जलयः ॥ ७३ ॥

तं दृष्ट्वा परमेष्ठी लीलाकृतसकलसर्गवर्गोऽपि ।
गौरवविस्मयहर्षौर्निःस्पन्दान्दोलितस्तस्थौ ॥ ७४ ॥

तस्यातितीव्रनियमाद्ग्रस्तेऽगस्त्येऽतिविस्मयेनेव ।
अल्पतपोव्रतलज्जाकुञ्चितपृष्ठे वसिष्ठे च ॥ ७५ ॥

अतिसरलनिजमुनित्रतपरिगतकुत्से च कूणिते कौत्से ।
डम्बररहितात्मतपोनिरादरे नारदे विहिते ॥ ७६ ॥

निजजानुसंधिशिखरे जमदग्नौ ममवदने च ।
त्रस्ते विश्वामित्रे वलितगले गालवे भृगौ मग्ने ॥ ७७ ॥

सचिरोत्थितमतिकोपादासनकमले निविष्ठदृष्टिं च ।
शूलप्रोतमिवाग्रे निःस्पन्दममन्दगर्वगुरुगात्रम् ॥ ७८ ॥

ज्ञात्वा तमासनार्थिनमवदद्देवश्चतुर्मुखः प्रीत्या ।
विकसन्निजदशनरुचा विहसन्निव वाहनं हंसम् ॥ ७९ ॥

उपविश पुत्र ममाङ्के नियमेन महीयसातिचित्रेण ।
अर्होऽसि गुणगणोद्भतगौरवसंवादिनानेन ॥ ८० ॥

इत्युक्तो विश्वसृजा तस्याकमशङ्कया ससंकोचः ।
अभ्युक्ष्य वारिमुष्ट्या कृच्छ्रेणोपाविशद्दम्भः ।। ८१ ॥

दम्भ उवाच -नोच्चैर्वाच्यमवश्यं यदि वाच्यं हस्तपद्मेन ।
आच्छाध वक्ररन्द्रं स्पृष्टो न स्मां य[१]षास्वातांशैः।। ८२ ॥



१. मुखमारुतः