पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
काव्यमाला

    
कश्चिद्वदति तमेत्य द्रविणं निःक्षिप्य हन्त गन्तासि ।
प्रातः परं प्रभाते वि[१]ष्टिदिनं किं करोम्यद्य ॥ ११ ॥

तच्छुत्वा विकसितहदृग्वदति स मिथ्यैव नाटयन्खेदम् ।
कार्ये प्रसारिताक्षः पुनः पुनः पार्श्वमवलोक्य ॥ १२ ॥

त्वधीनं स्थानमिदं किं तु चिरं न्यासपालनं कठिनम् ।
विषमौ च देशकालौ साधोस्तव तदपि दासोऽहम् ॥ १३ ॥

भद्रा न दूषितैषा निःक्षेपक्षेमकारिणी शस्ता ।
इत्यनुभूतं बहुशः कार्यज्ञैस्त्वं तु जानासि ॥ १४ ॥

विष्टिदिने किमपि पुरा न्यस्तं केनापि मिश्रेण ।
तूर्णं पुनश्च शनकैनीतं क्षेमेण [२]कुशलेन ॥ १५ ॥

इत्यादि मुग्धबुद्धेरसमञ्जसवर्णनं रहः कृत्वा :
गृह्णाति कनकनिकरं नृत्यस्तत्तन्मनोरथैः पापः ॥ १६ ॥

तत्संचूर्णनजातैः क्रियविक्रयलाभराशिभिरनन्तैः ।
भाण्डप्रतिमाण्डचयैरुपहसति धनाधिनाथं सः ॥ १७ ॥

पूर्णाः कदर्यवणिजां निःसंभोगा निधानधनकुम्भाः।
सीदन्ति कुचतटा इव दुःखफाला बालविधवानाम् ॥ १८ ॥

दानोपभोगविरहितहिरण्यरक्षाकृतक्षणाः सततम् ।
संसारजीर्णमन्दिरविषममहामूषका वणिजः ॥ १९ ॥

अटति समुत्कटवेष्टितविकटपटस्फुरफटाटोपः ।
कुटिल कण्टकनिचितः पुरपतिनामा निधिव्यालः ॥२०॥

अथ पुरुषः स दिगन्तंभ्रान्त्वा केनापि दैवयोगेन ।
नष्टधनो जनरहिता प्राप्तः सुचिरान्निजं देशम् ॥ २१ ॥

पृच्छति कमपि सशङ्कः स किराटः क्व नु तु गतो महासत्त्वः
तमुपेत्य वदति कश्चित्तस्याद्य सखे विभूतिरन्यैव ।। २२॥

विवित्तवांशुकमुगमदचन्दनकर्पूरमरिचपूगफले ।
खटिकाहस्तः स सदा गणयति कोटीर्सुहूर्तेव ॥ २२ ॥



१. भद्रानस्वकदुष्टकरणयुकं दिनभू. २. कुशलेनेत्यधिकमिव भाति