अस्मिन्मेरुविशाले वरभवने रुचिरमित्तिकृतचित्रे ।
पुरपतिनाप्यनुयातो वसति सुखं स हि महाजनो यत्र ॥ २४ ॥
श्रुत्वैतदतुलविस्मयलोलितमौलिः स तद्गृहं गत्वा ।
द्वारे स्थगितस्तिष्ठति निष्प्रतिभो जीर्णकर्पटः सुचिरम् ।। २५ ॥
तं तुङ्गभवनवलभीजालान्तरतो वणिक्परिज्ञाय ।
नोच्छ्वसिति नष्टचेष्टस्ताडित इव मूर्ध्नि वज्रेण ॥ २६ ॥
उपसृत्य मन्दमन्दं कथमपि संप्राप्तनिर्जनावसरः ।
तं याचते स पुरुषो द्रविणं खं प्रकटिताभिख्यः ॥ २७ ॥
तं वदति सोऽन्यदृष्टिः सभ्रूभङ्गं विधूतहस्तात्र्पः ।
वञ्चकवचनः पापो वृत्तिक्षीणः कुतोऽयमायातः ॥२८॥
कस्त्वं कस्य कुतो वा दर्शनमपि न स्मरामि किं कथनैः ।
अहह कदा कुत्र त्वं वद कस्य किमर्पितं केन ॥२९॥
पश्यत कष्टमनिष्टः कलिकालः कीदृशोऽयमायातः ।
मत्तोऽर्थमेष वाञ्छति लोको जानाति या सर्वम् ॥ ३० ॥
हरगुप्तकुलेऽस्माकं निःक्षेपग्रहणमप्यसंभाव्यम् ।
किं पुनरपह्न्वोद्गतधोरमहापातकस्पर्शः ॥ ३१ ॥
तदपि सतताभिशंसी प्रत्याख्येयो जनः कथं महताम् ।
कथय दिनं तदिबसे लिखितं सर्वं स्वयं पश्य ॥ ३२॥
वृद्धोऽहं न्यस्तभरः पुत्रे सर्वं ममास्ति लिखितं हि ।
इति तेन विनष्टधृतिः स विष्टस्तत्सुतान्तिकं प्राप्तः ॥ ३३ ॥
तातो जानाति सुतो जानाति पितैव लिखति सकलं यत् ।
इति तस्य भवति सुचिरं गतागतं कन्दुकस्येव ॥ ३४ ॥
राजकुलद्वारगते तसिन्प्राप्तप्रवासदत्तार्थे ।
सहते नरपतिकोपं त्यजति किराटो न रूपकस्यांशम् ॥ ३५॥
परिपीडितः स राज्ञा विविधैरपि यातनाशस्त्रैः ।
मम हस्ते निक्षिप्तं किंचिन्नास्तीति वक्त्येव ॥ ३६ ॥
५ प्र. गु.