संमोहमीलिताक्षी स्थित्वा सुचिरं महीं सप्नालिङ्ग्य ।
शनकैरवाप्तजीवा विललाप लघुस्वरैः स्वैरम् ॥ ६५ ॥
हा हा नयनानन्द क्व नु ते विशदेन्दुसुन्दरं वदनम् ।
द्रक्ष्यामि भन्दपुण्या किमिदं क्वाहं क्व मे कान्तः ॥ ६६ ॥
इति तरुणकरुणमबला विलप्य पाशं विमुच्य यत्नेन ।
अङ्के धृत्वास्य मुखं चुचुम्ब जीवं क्षिपन्तीव ॥ ६७ ॥
सा तस्य वदनकमलं निजवदने मोहिता कृत्वा ।
ताम्बूलगर्भमकरोत्प्रकटितसाकाररागेव ॥ ६८ ॥
अथ तस्याः कुसुमोत्करमृगमदधूपादिसौरभाहूतः ।
आविश्य शवशरीरं नासां चिच्छेद वेतालः ॥ ६९ ॥
सा प्राप्य चापलोचितमनयफलं छिन्ननासिका गत्वा ।
भवनं प्रविश्य भर्तुरतारं हाहेति चुक्रोश ॥ ७० ॥
प्रतिबुद्धे सकलजने नादत्रस्ते समुद्रदत्ते च ।
सा नासिका गमेयं भर्त्रा छिन्नेति चक्रन्द ॥ ७१ ॥
श्वशुरादिबन्धुवर्गैः पृष्टः कुपितैः समुद्रदत्तोऽपि ।
विक्रीतः परदेशे मूक इबोचे न किंचिदपि ॥ ७२ ॥
अथ चास्य सुप्रभाते बन्धुभिरावेदिते नृपसमायाम् ।
तत्राभून्नृपकोपो बहुधनदण्डः समुद्रदत्तस्य ॥ ७३ ॥
चौरोऽपि निखिलवृत्तं प्रत्यक्षमवेक्ष्य विस्मयाविष्टः ।
आवेद्य भूपपुरतः प्राप्य च वलयादिसत्कारम् ॥ ७४ ॥
उद्याने शववदने तस्यास्तां नासिकां च संदर्श्य ।
निष्कारणसुहृदुचितां शुद्धिं विदधे समुद्रदत्तस्य ॥ ७५ ॥
इत्येताः कुटिलतराः क्रूराचारा गतत्रपाश्चपलाः ।
यो नाम वेत्ति रामाः स स्त्रीभिर्नैव वञ्चयते मतिमान् ॥ ७६ ॥
इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे कामवर्णनं नाम तृतीयः सर्गः।