पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
८१
प्राणाभरणम् ।

 
माणिक्यावलिकान्तिदन्तुरतरैर्भूषासहस्रोत्करै-
 विन्ध्यारण्यगुहागृहावनिरुहास्तत्कालमुल्लासिताः ॥ ४ ॥

 अत्र विन्ध्यारण्यगतानां गुहागृहाणामवनिरुहां च विन्ध्यगतानां गुहागृहाणामरण्यग- तानामवनिरुहाणां वा भूषणेन कार्येणाप्रस्तुतेन त्वदरिनारीणां खनगराणि परित्यज्य निशि गुहागृहेषु तरुतलेषु च विन्यस्य सकलाभरणानि कृतशयनानां प्रातस्त्वदागमनसंभ्रमेण तत्कर्मकं विस्मरणं भारवशात्परित्यागो वा प्रस्तुतो गम्यत इत्सप्रस्तुतप्रशंसा। कार्यस्य यथाकथंचित्प्रस्तुतत्वे तु पर्यायोक्कमलंकारः॥

 
 माहात्म्यस्य परोऽवधिनिजगृहं गम्भीरतायाः पिता
  रत्नानामहमेक एव भुवने को वापरो मादृशः।
 इत्येवं परिचिन्त्य मा म सहसा गर्वान्धकारं गमो
  दुग्धाब्धे भवता समो विजयते श्रीप्राणनारायणः ॥ ५ ॥

 अत्रोपमानस्य गुणविशेषप्रयुक्तसादृश्याभावनिबन्धनमुत्कर्षं परिहर्तुं वर्ण्यमानसादृश्या-
त्मकः प्रतीपालंकारभेदः । स चोपमाविशेष इसके । विच्छित्तिवलक्षण्यादतिरिक्त
एवेत्यपरे ॥
<poem>
 त्वत्तो जन्म सितांशुशेखरतनुज्योत्स्नानिममात्मनो
  दुग्धाम्भोनिधिमुग्धवीचिवलयैः साकं परिक्रीडनम् ।
 संवासः सुरलोकसिन्धुपुलिने वादः सुधांशोः करैः
  कसानोज्वलिमानमञ्चतुतमां देव त्वदीयं यशः ॥ ६॥

 अत्र यशसि धवलतातिशयस्तद्धर्मिसंबन्धप्रयुक्तत्वेन कथित इति समस्य विषयः । अंशुकृतश्चन्द्रे तत्कृतश्च भगवति भगवत्कृतश्च राजनीत्येवमुत्तरोत्तरमुपचीयमानो राजगत उत्कर्षः प्रतीयत इति सारविषयः ॥

 
 [१]आबध्नास्थलकान्निरस्यसितमां चोलं रसाकाङ्क्षया
  लकायावशतां तनोषि कुरुषे जङ्घाललाटक्षतम् ।


द्रेर्वनगुहारहवृक्षाश्चत्वार उल्लासिताः । अतस्तव वीरतां अमी वयं कि ब्रूम इत्यर्थः ।
कीडायां तथा कृतं श्रुखा शत्रवः पलाय्य विन्ध्यप्रदेश संगता इति भावः' इति तत्र
नागेशभट्टव्याख्यानम्. १. वामानां शत्रूणाम्. (तत्पक्षे) अलकां नगरीविशेषम् , चोलं
देशविशेषम् , रसाया भूमेः, लङ्काया नगरीविशेषस्य, जङ्घालस्य वेगवतो लाटदेशस्य, प्रत्य-
अमादेशं प्रति; अथ च वामानां स्त्रीणाम् (तत्पक्षे) अलकांचूर्णकुन्तलान्, चोलं वस्त्र-
विशेषम्, रसस्य शृङ्गारस्य, अलं कायावशतामत्यर्थ तासां शरीरस्यावशताम, जस्-
योललाटे व क्षतं नखक्षतं कुरुषे कामशास्त्रोक्तत्वात्, प्रत्यङ्गं सर्वाङ्गेषु ॥ '
प्र.गु.