पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/८९

एतत् पृष्ठम् परिष्कृतम् अस्ति
८१
काव्यमाला।

 प्रत्यङ्गं परिमर्दनिर्दयमहो चेतः समालम्बसे
  वामानां विषये नृपेन्द्र भवतः प्रागल्भ्यमत्यद्भुतम् ॥ ७॥

अन्न प्रकृतधर्मिगतयोः प्रकृताप्रकृतयोः प्रकृतयोरेव या वृत्तान्तयोः श्लेषः । स च षट्सु स्थलेषु शब्दनानात्वनिवन्धनो द्वयोश्वार्थनानात्वनिवन्धनः । द्वाप्येती शब्दालं- काराविति प्रायः । आद्यो जतुकाष्ठन्यायेन शब्दलेपणाच्छब्दालंकारः, द्वितीयस्त्वेकान्तग- तफलद्वयन्यायेनार्थश्लेषणादर्थालंकार इति नव्याः॥

 देव त्वां परितः स्तुवन्तु कवयो लोमेन किं तावता
  स्तव्यस्त्वं भवितासि यस्य तरुणश्चापप्रतापोऽनिशम् ।
 क्रोडान्तः कुरुतेतरां वसुमतीमाशाः समालिङ्गति
  द्यां चुम्बत्यमरावती च सहसा गच्छत्यगम्यामपि ॥ ८॥

 अत्र प्रतापगतः पृथिव्यादिसंपन्धो लिगविशेषायच्छिन्नतत्तत्साधारणविशेषणाभिव्यक्त- कामुकवृत्तान्तामियतया स्थित इति समासोक्ति: कार्यरूपधर्मप्रयुगशुद्धसाधारण्येन विशे- षणसाम्यमालम्ब्य प्रवृता । सा च निन्दोत्थापकत्वाशाजस्तुतौ गुणः ॥

 लोकानां विपदं धुनोषि कुरुषे संपत्तिमत्युत्कटा-
  मित्यल्पेतरजल्पितैर्जडधियां भूपाल मा गा मदम् ।
 यत्कीर्तिस्तव वल्लभा लधुतरब्रह्माण्डभाण्डोदरे
  पिण्डीकृत्य महोन्नतामपि तनु कष्टेन हा वर्तते ॥ ९ ॥

 अत्रापि प्राग्वत् । परं त्वाधारावेयान्यतरविस्तृतत्वसिद्धिफलकान्यतरन्यूनत्वकल्पना- स्माधिकालंकारोऽपि तस्यां गुणः ॥

 क्षोणी शासति मय्युपद्रवलयः कस्यापि न स्यादिति
  प्रौढं व्याहरतो वचस्तव कथं देव प्रतीमो वयम् ।
 प्रत्यक्षं भवतो विपक्षनिवहैर्द्यामुत्पतद्भिः क्रुधा
  ययुष्मत्कुलकोटिमूलपुरुषो निर्भिद्यते भास्करः ॥ १० ॥
इह् त्वधिकसमासोक्तिभ्यामनालिङ्गितैव सा [व्याजस्तुतिः] ॥
<poem>
 आस्वादेन रसो रसेन कविता काव्येन वाणी तया
  लोकान्तःकरणानुरागरसिकः सभ्यः समा चामुना ।
 दारिद्र्यानलदह्यमानजगतीपीयूषधाराधर
  क्षोणीनाथ तमा भवांश्च भवत्रा भूमण्डलं भासते ॥ ११ ॥