पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/९

एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला


 महागणपतिमन्त्रमुद्धरति–तारः प्रणवः, श्रीलक्ष्मीबीजम्, परशक्त्तिर्मायाबीजम्, कामः कामबीजम्, वसुधा भूमिबीजम् , इति पञ्चरूपाणां बीजानामनु गमित्यक्षरमेताशं साधका विदुस्तस्मै गणाधिपतये प्रणतिः स्वादिति योजना । यः सततं स्वाहाखथा- दिभिः शक्तिभिः पूजितः । आतेन रागिणा प्रथमं वरेति ततो वरदेसामन्याभ्यर्थ्यते। अभ्यर्थनामेवाह--सर्व जनं स्वामिन्मे वशमानयेति । साहादिभिरित्यनेन स्वाहान्तो मन्त्रः। अत्राधिपदं सर्वमिति च पदं छन्दोनुरोधादुक्तम् । मन्त्रे तु गणपयते तथा सर्वजन- मित्येकमेव पदम् । खामिन्निति च मन्त्राद्बूहिर्भूतम् ॥

कल्लोलाञ्चलचुम्बिताम्बुदतताविक्षुद्रवाम्भोनिधौ
द्वीपे रत्नमये सुरद्रुमवनामोदैकमेदस्विनि ।
मूले कल्पतरोमहामणिमये पीठेऽक्षराम्भोरुहे
षट्कोणाकलितत्रिकोणरचनासत्कर्णिकेऽमुं भजे ॥ ३॥

 कल्लोलानां महोर्मीणासञ्चलाः प्रान्तास्तैराश्लिष्टा मेघततिर्येनेतादृश इक्षुरससमुद्रे सुर- द्रुमाणां पारिजातादीनां वनं तदामोदेन परिपुष्टे । रत्नमयं द्वीपं वारिमध्यस्थलं तद्गतस्य कल्पतरोर्मूले महामणिमयं पीठं तत्र पदकोणयुक्तत्रिकोणकर्णीकायुक्तेऽक्षराम्भोरुहे तन्न- प्रसिद्धे मातृकाकमलेऽमुं महागणपतिं भजे ॥

चक्रप्रासरसालकार्मुकगदासद्वीजपूरद्विज-
ब्रीडमोसलपाशपङ्कजकरं शुण्डाग्रजामहटम् ।
आश्लिष्टं प्रियया सरोजकरया रतस्करभूषया
माणिक्यप्रतिमं महागणपतिं विश्वेशमाशास्महे ॥४॥

 चक्र प्रसिद्धम् , प्रासत्रिशूल:, रसालकार्मुकभिक्षुधतुः, गदा प्रसिद्धा, बीजपूरो मातुलिङ्गम्, द्विजः स्वकीयो दन्तः, व्रीह्यग्रं शालिमक्षरी, उत्पलं प्रसिद्धम् , पाशुपङ्कजे च प्रसिद्धे, एवं दशायुधानि करेषु यस्य । शुण्डाप्रे पुष्करे आप्रतिस्थतो गटो रत्न्पूर्णो हेम- कुम्भो यस्य । कमलहतया प्रियया दक्षिणहस्तेनालिङ्गितं माणिक्यप्रतिमं शोणच्छविं सर्वेश्वरं महागणपतिमाशास्महे ।।

दानाम्भःपरिमेदुरप्रसृमरव्यालम्बिरोलम्बभृ-
सिन्दूरारुणगण्डमण्डलयुगव्याजात्मशस्तिद्वयम् ।
त्रैलोक्येष्टविधानवर्णसुभगं यः पद्मरागोपमं
घत्ते स श्रियमातनोतु सततं देवो गमानां पतिः ॥५॥

 दानाम्भसा मदाम्बुना परिमेदुरे व्याप्तं प्रसृमरान्व्यालम्बिनो रोलम्बान्प्रमरान्वि- भर्तीति प्रसूमरव्यालम्बिरोलम्बमृत् । सिन्दूरेणारुणमेतादृशं कुम्भप्रदेशद्भयं तस्स भीषा-