अत्र पाण्डुपुत्रेषु विषयेषु राजवशंवदतादात्म्योत्प्रेक्षायां राजाश्रितत्वरूपो विषयिधर्मः
लेषेण विषयाणां वदाश्रितानां चासत्याभावशुक्लगुणपुण्यपरमेश्वराणामभेदसंपादनद्वार।
विषयसाधारणीकृतः॥
मन्थाचलभ्रमणवेगवशंवदा ये
दुग्धाम्बुधेरुदपतन्नणवः सुधायाः ।
तैरेकतामुपगतैर्विविधौषधीभि-
र्धाता ससर्ज तव देव दयादृगन्तान् ॥ २८ ॥
अत्र दृगन्तेषु न केवलं संजीवकत्वादयोऽमृतमात्रगुण एव कवेर्बुबो[१]धयिपिता अपि तु निखिलजनवशीकारत्वादयोऽन्येऽपीति सुधाकणेष्वोषधीसंसर्गोऽतिशयार्थमुपात्तः ॥
केशैर्वधूनामथ सर्वकोषैः प्राणैश्च साकं प्रतिभूपतीनाम् ।
त्वया रणे निष्करुणेन गाढं चापस जीवा चकृष जवेन ॥ २९ ॥
अत्र चापकर्षणकार्याणानां केशाकर्षणादीनां पौर्वापर्यविपर्ययात्मनातिशयेनानुप्राणिता- सहोक्तिः॥
महेन्द्रतुल्यं कवयो भवन्तं वदन्तु किं तानिह वारयामः ।
भवान्सहस्रैः समुपास्यमानः कथं समानस्त्रिदशाधिपेन ॥ ३० ॥
अत्र श्लेषोत्थापितत्रिदशत्वसंख्यामादाय व्यतिरेक उपातोभयनिमित्तकः॥
स तु वर्षतु वारि वारिवदस्त्वमुदाराशय रत्नवर्षणः ।
स कुहूरजनीमलीमसस्त्वमिहान्तर्बहिरेव निर्मलः ॥ ३१ ॥
अत्रापि स एव परं तु श्लेषोऽत्रानुत्थापको निविध्यमानं साम्यं च न शाब्दमिति- विशेषः॥
कतिपयैर्निरणायि जनाविपस्तदपरैरुदटङ्कि धनाधिपः ।
अजनि केवलमेष गिरां पतिर्भुवि भदेकमते कमतेश्वरः ॥ ३२ ॥
अत्र नायं राजा कि गिरां पतिरित्याकारापाहुतिः । तत्र निषेधभागः परमतत्वोक्त्या पूर्वार्धेन गम्यते । आरोपांशस्तूतरार्धेन ।
मकरप्रतिमैर्महाभटैः कविमी रत्ननिभैः समन्वितः ।
कवितामृतकीर्तिचन्द्रयोस्त्वमिहोर्वीरमणासि भाजनम् ॥ ३३ ॥
अत्र राज्ञे जलध्युपमायाः शब्देनामिधानेऽप्यङ्गोपमामिराक्षेपादेकदेशविवर्तिन्युपमा तेनोत्तरार्ध उपमितसमास एव । विशेषणसमासवेद्यस्य तादात्म्यस प्रकृतेऽनुपयोगात् ॥
१. बोधयितुमिष्टा</poem>
- ↑ १