पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
३. लावानके-हलभूत्याख्यायिका ।]
१०१
बृहत्कथामञ्जरी ।

कालरात्रिकथां राज्ञे सर्वामेत्य न्यवेदयत् ।
राजा तत्वं परिज्ञाय तस्या निग्रहमभ्यधात् ।। ३९४ ॥
सा ततोऽन्तर्हिताभ्येत्य स्थिता चान्तःपुरे मम ।
इत्येतत्कथितं तुभ्यं याथातथ्यं मया विभो ॥ ३९५ ॥
एहि सिद्धिं भज क्षिप्रं प्रयोगे समयी भव ।
भुङ्क्ष्व वीर महामांसं निर्विकल्पपदं श्रय ॥ ३९६ ॥
इति देवीगिरा राजा घृणाघूर्णितमानसः ।
तथेति चक्रे कृच्छ्रेण बहुशो बोधितस्त्वया ॥ ३९७ ॥
त्वयाकृष्टः पशुः कोऽत्र पृष्टेति जगतीभुजा ।
हलभूतिरिति प्राह स्वैरं कुवलयावली ॥ ३९८ ॥
उद्विघ्नं स समाकर्ण्य देव्या च भृशमर्थितः ।
राजा दोलायितमनाश्चिरेण प्राप निश्चयम् ॥ ३९९ ।।
ततः साहसिकं नाम सूदमाहूय दंपती तमूचतुः समभ्येत्य यो वक्ष्यति महानसे ॥ ४०० ॥
राजयोग्यां वसुमतीं कुरुष्वेति त्वमेव तम् ।
हत्वा तन्मांसभूयिष्ठं तूर्णं भोजनमानय ॥ ४०१ ॥
इति संविदमाधाय स सभामण्डयं पुनः ।
हेलभूतिं नृपः प्राह भोज्यं मे क्रियतामिति ।। १०२ ॥
तूर्ण तदाज्ञया गन्तुं प्रस्तुतं तं महानसम् ।
ऊचे चन्द्रप्रभोऽभ्येत्य राजसूनुस्त्वराकुलः ॥ ४०३ ॥
मत्कुण्डलो हृतो गच्छ श्रुत्वेत्याह च स द्विजः ।
राजभोजनमादित्थ सूदमेष्याम्यहं क्षणात् ॥ ४०४ ॥
इति राजसुतः श्रुत्वा हलभूतिमभाषतः ।
अहं महानसं गत्वा सूदं वक्ष्यामि ते वचः !
व्रज मत्कुण्डलार्थं त्वमित्युक्तौ जग्मतुः पृथक् ॥ ४०९ ॥


तद्भयात्पलायात्र' ख. २. ताबूचतुःख. ३. 'महामतिः ख. ४. 'रसवती ख. ५-६. 'फलभूतिम् इति कथासरित्सांगरे.