पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
४. नरवाहनजन्मनि जीमूतवाहनाख्यायिका।]
१०७
बृहत्कथामञ्जरी ।

शृणु विद्याधरकी हर्षपीयूषचर्विणीम् । भावी कल्याणवसुवे फलितं त्वन्मनोरथैः ॥ १९ ॥ अस्ति साधुमनःस्वच्छस्फटिको हिमभूभृतः । विद्याधराणां वसतिः कैलासो नाम शेखरः ॥ ५० ॥ जीमूतकेतुरभवत्तत्र विद्याधरेश्वरः । वंशे कल्पतरुर्यस्य संपूरितमनोरथः ॥ ११ ॥ जीमूतवाहनस्तस्य पुत्रोऽभूत्सत्त्वसागरः । यद्यशश्चन्द्रिकाधौतमद्यापि भुवनत्रयम् ।। ५२ ।। पित्रा दत्ताभिषेकोऽसौ विततार सुरद्रुमम् । हेमवर्षणमर्थिभ्यः करुणापूर्णमानसः ॥ १३ ॥ दत्तकल्पतरोस्तस्य पापा राज्यजिहीर्षवः । विद्याधराधिपारतस्थुः संहताश्छद्मनिश्चयाः ॥ १४ ॥ जीमूतवाहनो ज्ञात्वा तेषां कुटिलचेष्टितम् । स्वयं शक्तोऽपि तत्याज राज्यं वैरपराङ्मुखः ॥ १५ ॥ स पित्रा सहितः प्रायाद्विरक्तो मलयाचलम् । मरुताण्डवितोद्दण्डश्रीखण्डतरुमण्डलम् ॥ ५६ ।। तत्र निर्झरहुक्कारिरमणीयशिलातले । आसीनः संददर्शाग्रे दिव्यं सिद्धकुमारकम् ॥ १७ ॥ विलोक्य कौतुकाविष्टस्तं पप्रच्छ महाद्युतिम् । कस्त्वं कस्य सुतो वेति स च पृष्टोऽभ्यभाषत ॥ १८ ॥ विश्वावसोः सिद्धपतेरहं मित्रावसुः सुतः । स्वसा मलयवत्यस्ति मम लावण्यकौमुदी ॥ १६ ॥ जाने विद्याधरेन्द्रं त्वां देव जीमूतवाहनम् । योग्यां तथैव तां मन्ये रतिं रतिपतेरिव ॥ ६ ॥ इति प्रियं वचः श्रुत्वा प्राह जीमूतवाहनः ।

स्मरामि पूर्वभार्यासौ दयिता तव चेत्स्वसा ।। ६१ ॥


१, तनचे ख. २. रस्य' ख. ३. ता मे तव खसी ख.