पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१०८

एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला ।

शृणु जन्मान्तरकथां ममेमां तत्समागमे ।
निर्माल्योल्लङ्घनाच्छंभो: पुरा मानुक्तां गतः ॥ ६२ ॥
महाधनस्य वणिजः संप्राप्तः पुत्रतामहम् ।
वसुदत्ताभिधानोऽहं विसृष्टो द्रविणार्जने ॥ ६३ ॥
पित्रा विन्ध्याटवीं घोरामविशं शबराकुलाम् ।
तत्र दस्युबलैर्वध्वा नीतोऽहं चण्डिकागृहे ।
दृष्टः शबरराजेन तद्बन्धाच्च विमोक्षितः ॥ ६४ ॥
ततः प्रतिनिवृत्तोऽहं पित्रे सर्वं निवेद्य तत् ।
स्थितस्तत्प्रत्युपकृतिध्यानस्तिमितमानसः ॥ ६५ ॥
ततः कदाचिद्वलिनो राज्ञस्तं वशमागतम् ।
कृतोपकारं शबरं धनेनाहममोचयम् ॥ ६६ ॥
स वधान्मोचितो यज्ञात्कृतज्ञः शबरो मया ।
कन्या पृष्टा भया भद्र प्रतिकर्तुं ममाह च ॥ ६७ ।।
ततोऽहं स्वयमुत्तालतमालसरलाकुलम् ।
नीतः प्रालेयशैलेयच्छायाशबलिताम्बरः ॥ ६८ ॥
तत्र यामाह शबरः पुरा दृष्टेह कन्यका ।
मया मदनमाङ्गल्यमालिकालोचनामृतम् ।। ६९ ॥
सिंहाधिरूढा गौरीव हराराधनसंगता ।
सोत्सुका धनमभ्येत्य मया त्वत्कथया कृता ॥ ७० ॥
इत्युक्त्वा नलिनीखण्डमण्डित्तोपान्तमादरात् ।
सोऽदर्शयत्तदा चारु मम शंभुनिकेतनम् ॥ ७१ ॥
ध्रुवं शिवार्चनरता न चिरादेष्यतीत्यहम् ।
ध्यात्वा चिरं स्थितास्तत्र कृतस्नानहरार्चनः ॥ ७२ ॥
अथ पञ्चाननारूढामागतां तत्र कन्यकाम् ।
दर्शितो शबरेणारादपश्यन्मन्मथोत्सवम् ॥ ७३ ॥


कन्या तुपारखी प्रतिकतु ममोयतः ख. २. शैलेन्द्र किनरोफेलिमन्दि-