पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२
काव्यमाला ।

श्रुत्वेति मातुलसुतादपरेधुरुपेत्य तम्
सत्यवतं दासपतिं शुश्राव निजवाञ्छिते ॥ १६४ ॥
रत्नकूटाह्वयद्वीपे समुद्रेण प्रतिष्ठितः ।
विष्णुस्तद्वादशीयात्रासमाजे बहुसंगमः ।
सर्वद्वीपागतजने शङ्के मा ज्ञायते पुरी ।। १६६ ।।
श्रुत्वेति दाससहितः शक्तिदेवोऽम्बुधिं ययौ ।
व्रजन्पोतेन जलधौ द्विजं दासाभिधो(घिपो)ऽभ्यधात् ।।१६६॥
इदमावर्तसंघट्टं महावेगतरङ्गिभिः ।
वडवाग्नौ प्रवहणं पातितं मे, महानिलैः ।। १६७ ॥
अयं महावटतरुर्जले दिव्यमहीरुहः ।
शाखामस्थावलम्बस्व नाहं शक्तो जरान्वितः ।। १६८ ॥
इत्युक्त्वा विटपालम्बितनौ तस्मिन्ममज्ज सः ।
धन्यः पुण्यवतामेव परार्थे जीवितव्ययः ॥ १६९ ॥
ततस्तरुलतासक्तो निशि शोकानलाकुलः ।
ददर्श तं महावृक्षं महाकायैः खरौर्वृतम् ॥ १७ ॥
तेषामेको गिरीन्द्राभो जटायुरिय जर्जरः ।
अवदम्मानुपांगिरा गत्या गमकथान्तरे ॥ १७ ॥
यूये युवानो गन्तारः प्रातर्वेंगाद्दिशो दश ।
गन्तव्या काञ्चनपुरी वृद्धेन तु मया क्वचित् ।
अपि गन्तु न शक्या सा तद्यूयं यात मा चिरम् ॥ १७२ ॥
श्रुत्वेति दासनिधनप्रशोकोऽपि जहर्ष सः ।
पुंसां स्वकर्मवैचित्र्यान्न दुःखं न सुखं सदा ॥ १७३ ।।
ततः प्रविश्य तद्वक्तुम पक्षान्तविवरोदरे ।
तद्वेगयातात्पत्यूषे तां प्रापः स पुरीं क्षणात् ।। १७४ ॥
ततस्तों काञ्चनपुरीं काञ्चनस्तम्मतोरणाम् ।


'सारखावलम्वस्थाने वर्मशती ई. सान्वितः स्व. का पितद्वेषात का चियन' ख