पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
५. चतुदीरिक देवदत्तात्यायिका।]
१३२
बृहत्कथामञ्जरी ।

बहिः कलकलं श्रुत्वा निर्ययो लज्जकार्मुकः ।। २.२१॥
ततः पुञ्जीकृतजनं दंष्ट्रिणं कजलच्छविम् ।
सेन्दुलेखमिव ध्वान्तमपश्यत्सूकरं पुरः ॥ १२२ ।।
तं जघान हतानेकजनं तीक्ष्णेन पत्रिणा।
स च तच्छरनिर्भिन्नो विवेश विपुलं बिलम् ॥ २२३ ॥
कोडानुसारी सहसा शक्तिदेवो रसातलम् ।
प्रविश्य तस्य नगरीं वापीं कन्यां च दृष्टवान् ॥ २२४ ॥
तमाह कन्यका दैत्यः शूकरोऽयं त्वया हतः ।
अद्यैवास्मि हृता तेन राजपुत्री सुरद्विषा ।। २२५ ॥
प्रभो गृहाण मे पाणि तुल्योऽसि मम बल्लभः ।
इत्युक्तवाक्यां तां प्राप्य स जगाम यथागतम् ॥ २२६ ।।
ततस्तां बिन्दुलेखाख्यां कालेनालोक्य गर्भिणीम् ।
ज्येष्ठा बिन्दुमती प्राह शक्तिदेवं रहःस्थिता ॥ २२७ ॥
तस्याः पाटय गर्भ त्वमिति श्रुत्वा विकूणितः ।
स समेत्याँचिरात्कान्तामभूद्यानपरायणः ॥ १२८ ।।
सावदत्खिन्नमालोक्य दयिता संनतानता ।
प्रिय पाट्य गर्भं मे बिन्दुमत्या वचः कुरु ॥ २२९ ॥
श्रुत्वेति बिन्दुलेखायाः शक्तिदेवोऽतिविस्मितः ।
सर्वज्ञां मन्यमानस्तामुवाच रचिताञ्जलिः ॥ २३९ ॥
नृशंसं कर्म पापिष्ठं कथमस्मद्विधो जनः ।
कुर्याद्वचः कथं ज्ञात्वा तत्पापमनुमन्यसे ॥ २३१ ।।
इति प्रियतमेनोक्ता बिन्दुलेखावदत्पुनः ।
नैतदश्रेयसे कर्म शृणु चित्रां कथामिमाम् ॥ २३२ ॥
कञ्चुकस्थाननिलयो देवदत्तः पुरा जितः ।


ख. २. 'जन' ख...३. अत्याः ख. ४. पर खः सस्मिता ख.. कम्बुक इति कथासरित्सागरे १३० पृष्टे.