पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३४
काव्यमाला ।

द्यूतापहारिताशेषधनो बभ्राम भूतले ॥ २३३ ।।
महाव्रतिनमासाद्य जालपादाभिधं ततः ।
तेनार्थितो बभूवासौ तन्मन्त्रोपरिसाधकः ॥ २३४ ॥
तेनादिष्टस्ततो गत्वा स्मशानं वटशाखिने ।
पूजां कुसुमधूपार्घवलिपूर्वी प्रयच्छति ॥ २३६ ॥
निष्पन्नसिद्धिः कालेन प्रविश्य स वटान्तरम् ।
लेमे यक्षसुतां कान्तां सिद्धिं मूर्तिमतीमिदः ॥ २३६ ।।
हिरण्यवर्षनाम्नस्तां तनयां यक्षभूपतेः ।
विद्युन्मतीं समामन्त्र्य जालपादान्तिकं ययौ ॥ २३७ ।।
जालपादोऽथ तं प्राह सिद्धिज्ञो हर्षसंप्लुतः !
गच्छ गर्भ समुत्पाट्य तस्यास्तूर्णमिहानय॥ २३८ ॥
महाव्रतिवचः श्रुत्वा गत्वा यक्षसुतान्तिकम् ।
स. पापकर्मनिर्विण्णो नोचे किंचिदधोमुखः ॥ २१९ ॥
विज्ञाततदभिप्रायो आह यक्षसुता द्विजस्
क्षिप्रं पाटय मे गर्भं मा स्म भूः संशयाकुलः ॥ १४० ॥
तच्छ्रुत्वा सोऽतिकारुण्यान्न चकार नृशंसताम् ।
यदा तदास्मै सा गर्भं पाटयित्वा स्वयं ददौ ॥ २४१ ।।
प्राप्यते भक्षयित्वेमं विद्याधरगतिः प्रभो ।
इत्युक्तः सहसा गत्वा तद्गर्भं व्रतिने ददौ ॥ २४२ ॥
जालपादोऽपि विधिना भुक्त्वा तद्गर्भमात्मना।
विद्याधरपदं प्राप देव एवान्यवञ्चकः ॥ २४३ ॥
नञ्चितो देवदत्तोऽथ निःशेषचरुभक्षणात् ।
जालपादेन भूमिस्थस्तं ददर्श नभोगतिम् ॥ २४४ ।।
वञ्चितोऽहं कृतघ्नेन ध्यायन्निति सुदुःखितः ।


सदा व.यूणों "वर्ण ख..४. 'विद्युत्तमाः इति कथासरि सासरे ३ ख.६, स्व., कित खास तदा ख तिखएक स्वर