पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३६
काव्यमाला ।

इति तद्वचसा व्योम समुत्पत्य तया सह ।
शक्तिदेवो ययौ खङ्गी पुरी ता कनकालयाम् ॥ १५७ ।।
चतस्रः कन्यकाः प्राप्य सरमागहचन्द्रिकाः ।
तत्र विद्याधरो भूत्वा ननन्दानन्दविभ्रमः ॥ २५८ ॥
शशिखण्डश्रियं प्राप्य शक्तिदेवो महाशयः ।
शक्तिवेगाभिधां लेभे खङ्गविद्याधरेश्वरः ॥ २१९ ॥
इत्याससाद विभवं वत्सेश्वर चिराय यः ।
सोऽहमेवागतो द्रष्टुं त्वत्पुत्रं नरवाहनम् ॥ १६० ।।
सर्वविद्यामृतां नाथो दृष्टोऽयं तनयस्तव ।
स्वस्त्यस्त्विदानीं गच्छामि पुनरस्तु समागमः ॥ २६१ ।।
इति शक्तिदेवकथा ॥ ७ ॥
इति मिरममृतौघस्यन्दिनीं वत्सराजः
पियसचिवसहायस्तस्य रम्यां निशस्य ।
अभवदतुलहर्षस्मेरकान्तिप्रताप-
प्रकटितनिजसूनुः स्वच्छकान्तिप्रवाहः ॥ २६२ ॥
आमन्य राजानमदीयसत्त्वो विद्याधरेन्द्रो दिवमुत्पपात ।
कुर्वन्मुहुः कुण्डलताण्डवेन मार्तण्डमालाभरणा इवाशाः ॥ २६३ ॥
इति क्षेमेन्द्रविरचिते बृहत्कथासारे चतुर्दारिकनामा पञ्चमो लम्बकः समाप्तः ।
सूर्यप्रमतामा षष्ठो लम्बकः
प्रथमो गुच्छः ।
देवो भवः स भवतां भवताद्विभूत्यै
यस्याहन्त्यसिल भूषणभोगिभोगः
नेत्रातलाकलितकालकलवरोत्थ-
पर्वसुधूमपटलीवलनाविनोदम् ॥ १ ॥


वि. र नि खं. ३, कीर्ति रख भिवेद्भति' वं.