पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
सूर्यप्रमे-कालकजापकाख्यायिका ।]
१४१
बृहत्कथामञ्जरी

तस्य सर्वे वयं युद्धे विजयाशासितः स्वयम् ।
रुद्रयज्ञकृताश्वासः किं वृथा नृप माद्यसि ॥ ११ ॥
एकयज्ञोंद्धतो राजन्सहस्रशतयाजिभिः ।
स्पर्धां दधानस्त्रिदशैः कथमेको न लज्जसे ॥ १२ ॥
बलवद्भिर्विरोधों हि हास्यायैव न सिद्धये ।
विफलो दुर्गतस्येव धनिकस्पर्धयोत्सवः ॥ १३ ॥
नारदेनेति कथिते जातक्रोधे च भूपतौ।
मयः प्राह स्फुरत्कोपकम्पव्याकुलकुण्डलः ॥ १४ ॥
भगवन्न परिज्ञाय वीर्यसत्त्वबलाबलम् ।
संदिष्टं सुरराजेन रुद्रयज्ञावमानिना ॥ ५५ ॥
सहस्राक्षमुखा यस्य गीर्वाणाः पक्षमाश्रिताः ।
स खेचरश्रियं भुक्ते श्रुतशर्मा किमद्भुतम् ॥ १६ ॥
किं नु सूर्यप्रभजये स रुद्रः स्वयमुद्यतः ।
यदिच्छामात्रसंपत्तिर्जगतः प्रलयादयः ॥ १७ ॥
शक्रः क्रतुशतावाप्तसत्त्वः सत्यं तदुच्यते ।
तन्त्र ब्रूमः क्रतुर्नाम बाह्यद्रविणडम्बरः ॥ १८ ॥
किं यज्ञैर्विपुलायासैः किं व्रतैः कायशोषणैः ।
निर्व्याजसेवा सुभगा भक्तिर्येषां महेश्वरे ॥ ५९ ॥
पक्षपाते स्थिता यूयमस्मद्वैरिकुलेषु यत् ।
तन्न शङ्कास्पदं युष्मत्प्रभावो विदितो हि नः ॥ १० ॥
छलेन वञ्चितो यश्च बलिस्तरकस्य मानसम् ।
प्रीणाति यच्च तेनैव ते वृत्रप्रमुखा हताः ॥ ११ ॥
मयस्येति वचः श्रुत्वा समामन्त्र्य नृपं ययौ ।
भगवान्नारदो व्योम्मा चन्द्रराशिरिवोज्वलः ।। ६२ ।।


9. फला ख. २. 'याव्ययः' ख. ३. चि ख. ४. 'श्रीरिखेतद्यदुः ख. ५. 'स्य युष्मत्सु ख... 'त्र' ख. ७. "मुनयस्तेन वृत्र' ख.