पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२
काव्यमाला ।

ततश्चन्द्रप्रभो राजा दूतैः संबन्धिनो नृपान् ।
आनिनाय मयेनोक्तः पुत्रस्य जयसिद्धये ।। ६३ ।।
सुरम्भः पौरवो वीरः प्रभटो जनमेजयः ।
रम्भोदयश्च ते वीरास्ततस्तूर्णं समाययुः ।। ६४ ॥
सूर्यप्रभं हरादिष्टः सानन्दं नन्दिकेश्वरः ।
समेत्याह स्म दिव्यां त्वं स्वां श्रियं प्राप्स्यसीत्यथ ।। ६५ ।।
इरावतीचन्द्रभागांसंगमे व्रतदीक्षितम् ।
कृत्वा चन्द्रप्रभं हृष्टः सपुत्रमवदन्मयः ॥ १६ ॥
भार्याः सूर्यप्रभस्यैता भूपते जनकैः सह ।
तिष्ठन्त्विहैव पातालं प्रविशामो वयं नृपः।। ६७ ।।
इति दानवनाथेन निर्दिष्टो वसुधाधिपः ।
चन्द्रप्रभस्तथा कृत्वा सभार्यः ससुतोऽविशत् ॥ ६८ ॥
सूर्यप्रभे प्रविष्टेऽथ पित्रा सह रसातलम् ।
श्रुतशर्मा समभ्यायान्नभसा गुटिकाधरः ॥ १९ ॥
स राजपुत्रदयितास्ता जहार बहिः स्थितः ।
मायया मोहयित्वाशु तान्नृपान्युद्धसंमुखान् ॥ ७० ॥
सुतावियोगशोकेन व्याकुला वसुधाधिपाः ।
ते मर्तुमुद्यतास्तत्र शुश्रुवुर्नभसो वचः ॥ ७१ ॥
रक्षिताः शंकरेणाता राजपुत्रस्य वल्लभाः ।
श्रुतशर्मा न शक्तोऽसावेतन्मुखनिरीक्षणे ॥ २ ॥
दुःखं भजत माः यूयं जित्वा सूर्यप्रभो रिपून् ।
करिष्यत्येवे कान्तानां बन्दिग्रहविमोक्षणम् ॥ ७३ ॥
इति व्योवि वचः श्रुत्वा राजानस्ते धृतिं श्रिताः ।
जहुः शोकं च मोहं च बबन्धुश्च जये मनः ॥ ७४ ।।


रामाश्बुसमु' ख. २. जनकमि स्व. पर क्षितीश्वरा सातवज्ञावरना पन 'दुहिता' पलिजया