पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४४
काव्यमाला ।

भवान्ददातु वा मामिति श्रुत्वा स जापिकः
मानी राजानमवदद्दत्तावास्मि तद्वरम् ॥ १७ ॥
इति विप्रवचः श्रुत्वा सहसा क्षितिपोऽन्यधात् ।
प्रयच्छ मे जपेस्यार्धमित्युक्त्वानुशयं ययौ ॥ १८ ॥
सहस्रांशुकुले जातः कथं नु पृथिवीपतिः ।
उत्त्तानपाणिनिर्लज्जः सहे याचकतामिति ॥ ९ ॥
ततो यदृच्छयायातौ विवादाकुलितौ द्विजौ ।
'तत्रैव न्यायमिक्ष्वाकुनृपं प्रपच्छतुर्मिथः ।। १०
एक: पप्रच्छ नृपतिं गौरनेन समर्पिता ।
प्रतिप्रदत्तां गृह्णाति नायमित्युद्धताशयः ।
दत्तं नैव पुनर्ग्राह्यमित्यन्योऽप्ययवदद्द्विजः ।। ९१
अत्र न्यायं नृपः पृष्टो विचार्येक्ष्वाकुरब्रवीत् ।
दीयमानं न गृह्णीयात्स तु दुर्नयवानिति ॥ १३ ॥
ततो देवा नृपं प्राहुस्त्वमप्येवंविधो नृपः ।
दत्तं यो नैव गृह्णाति जपस्यार्धं द्विजन्मनः ।।.९३ ॥
परोपदेशे सर्वो हि सदा भवति पण्डितः ।
इति राजा सुरगिरा जपार्धं फलमग्रहीत् ॥ ९४ ॥
ततो दिव्यविमानेन प्रययौ शिवमच्युतम्
धाम भूमिपतिर्वन्द्यं सुरासुरनमस्कृतम् ॥ ९ ॥
व्ययीकृतं च संपूर्य जपस्यार्धमथ द्विजः ।
स. बभूव ततः क्षिप्रं तेजः परममाश्रितः ॥ १६ ॥
इत्येवं जपयोगेन दुर्लभं प्राप्यते नृप ।
तस्माद्भवानपि क्षिप्रं जपतां जपमुत्तमम् ॥ ९७३
इति कालकजापकाख्यायिका ॥१॥


व्याय भूतीत