पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४६
काव्यमाला ।

नारदः शक्रवचसा समेत्यावाप्तसत्कृतिः ।
उवाच सर्वे शृण्वन्तुः भवन्तः शक्रभाषितम् ॥ १०९ ॥
वैरं यदभवत्पूर्वं भवद्भिः सह नैश्विरम् ।
शान्तं तदधुना मन्ये धर्म्यमासाद्य सत्पदम् ॥ ११० ॥
वैरिणो मित्रतां यान्ति भित्राण्यायान्ति शत्रुताम् ।
कालस्य परिणामेन सर्वं हि परिवर्तते ॥ ११ ॥
दीर्घः कालः प्रयातोऽसौ प्राप्तो नो किंचिदस्ति नः ।
वर्तामहे मिथः स्नेहं न कलिः कारणं विनः ।। ११२ ॥
किंत्वद्य श्रुतशर्माणं विद्याधरधराधिपम् ।
यूयं जेतुं समुद्युक्ताः सुरपक्षसमाश्रयम् ॥ ११३ ॥
सूर्यप्रभो मनुष्योऽयं स च खेचरसत्तमः !
स्पर्धानयोः कथं नाम युष्मत्पक्षे न चेद्भवेत् ॥ ११४ ।।
मनुष्यसात्रसौहार्दान्मा संरूढ़ यदृच्छया ।
ऐकात्म्यं दानववरा विनाशयत निर्जरैः ॥ ११५ ॥
इति श्रुत्वा बलिर्वीरोऽवदद्दानवशेखरः ।
यथात्थ भगवान्सवै सत्यमेतदसंशयम् ॥ ११६ ॥
नैतन्न विदितं लोके यदस्माकं स वृत्रहा ।
वर्तते परया प्रीत्या मिथो जानाति वामनः ॥ १.१७ ॥
वैरस्य कारण शान्तं यदेतदभिधीयते ।
तत्सत्यं भवतां लक्ष्मीः कदा नास्मत्सुखप्रदा ॥ ११८ ।।
विद्याभृतां चक्रवर्ती श्रुतशर्मा निजां श्रियम् ।
युष्मत्पक्षाश्रयो भुङ्क्ते विमतिर्नास्तिकस्य चित् ॥ ११९ ॥
किं तु सूर्यप्रभस्यार्थे स्वयं देवस्त्रिलोचनः ।
उद्यतस्त्रिदशाः सर्वे यदिच्छामात्रभूतयः ॥ १२० ।।


१.,'सम' ख. २. निश्चितम् ख.३...य ख.