पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
६. सूर्यप्रभे-गुणशर्माख्यायिका 1]
१४९
बृहत्कथामञ्जरी ।

अपि शत्रुकरं प्राप्ता मया तव जयेप्सुना ।
माययता हृता वत्स निगद्येति स ता ददौ ॥ १४५ ॥
ततः सूर्यप्रभो हृष्टः सोत्कण्ठः प्राप्य वल्लभाः ।
भेजे निजपुरं गत्वा संभोगसुभगां श्रियम् ॥ १४६ ॥
ताभ्यो नरेन्द्रपुत्रीभ्यः स कालेन ततः सुतान् ।
दैत्यान्सप्राप्य शौर्यश्रीकुलाचारगुणोचितान् ॥ १४७ ॥
ततो रत्नप्रभं नाम सुतं राज्ये जनप्रियम् ।
अभिषिच्य जयारम्भे व्यग्रसैन्यो विनिर्ययौ ॥ १४८
भूतासनं समारुह्य विमानं वल्लभासखः ।
तेनैव दत्तविद्यैश्च सह सर्वैर्नरेश्वरैः ॥ १४९ ॥
सुनीथो मयनिर्दिष्टं हिमवत्पार्श्वमेत्य सः।
सुमेरु नाम सुहृदं चक्रे विद्याधराधिपम् ॥ १५० ॥
आप्तं सुवाससं नाम शंभोस्तेजोयमाकृतिम् ।
कुमारं रणसाहाय्ये लेभे सूर्यप्रभस्ततः ॥ १५१ ॥
तस्याभूत्कटकाबन्धो गजवाजिरथाकुलः ।
अशीतियोजनायामो नरखेचरसंकुलः ॥ १५२ ।।
वल्मीकाख्यं समासाद्य दिव्यदेशं क्रमेण सः।
विकटाजगराकारच्छन्नं
तूणमवाप्तवान् ॥ १५३ ।।
अक्षयं तूणमासाद्य धनुर्दिव्यं च तद्विधम् ।
विमानं च महापद्मं भास्वराः सप्त चौषधीः ॥ १५४॥
मृतसंजीवनी मुख्या गुहागर्भाज्जयोत्सुकः ।
श्रुतशर्माणमाकर्ण्य दूतवाक्याद्रणोन्मुखम् ।। १६५ ।।
प्रतस्थे समरारम्भदुन्दुभिदैस्वनमन्थरैः ।
सैन्यैर्गजघटाघण्टागम्भीरस्वनविभ्रमैः ॥ १६६ ॥


१. कमो ख.. 'अंश ख.३. 'मया' ख. ४. भजे ख. ५. 'स्करात्स ख. मख. ७..ध्या