पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५२
काव्यमाला ।

वदन्निति नरेन्द्रेण सनिर्बन्धं पुनः पुनः ।
प्रार्थ्यमानः शनैर्नृत्तं कलाश्च समदर्शयत् ॥ १८१ ।।
कैशिकीकोमलं लास्यं वीरोदारं च ताण्डवम् ।
सर्वरागानुर्ग गीतं वीणां च मृदुमूर्च्छनाम् ॥ १८२ ॥
ततस्तस्य समालोक्य पुष्पेषोरिव मन्त्रिणः ।
तत्र शोकवती देवी रमरार्द्रहृदयाभवत् ॥ १८३ ॥
अभिलाषरसावेशं निगृह्य नृपमब्रवीत् ।
सा स्वेच्छावत्प्रणयिनं तत्कालोचितविभ्रमा । १८४ ॥
अभ्यर्थयैनं येनायं देव शिक्षयति क्षणात् ।
मां मञ्जुर्भोषिणीं वीणां स्वरश्रुतिविचक्षणः ॥ १८५ ।।
इति देवीगिरा राज्ञा गुणशर्मार्थितश्चिरम् ।
प्रातः शिक्षयितास्मीति निगद्य स्वगृहं ययौ ।। १८६ ।।
स्निग्धां दृष्टि समालक्ष्य शङ्कितो राजयोषितः ।
विवेशान्तःपुरे प्रातवीणां शिक्षवितुं स्वयम् ॥ १८७ ॥
अङ्के वीणां समाधाय तत्पुरः सा स्मराकुला ।
शशंसाक्षिविकारैश्च भ्रूविलासैश्च हृद्गतम् ॥ १८ ॥
विदग्धानां नखाग्रेण संज्ञां मन्मथकारिताम् ।
गुणशर्मा जगादैनां देवि संवृणु दुर्नयम् ॥ १८९॥
प्रभुभार्या त्वमस्माकं मा कृथा गर्हिता मतिम् ।
इति सा तद्वचः श्रुत्वा भज मामित्युवाच सा ॥ १९ ॥
कम्पमानस्तनी लीलासंरम्भगलितांशुका ।
कर्णौ पिधाय यातेऽथ तामनादृत्य सुन्दरीम् ॥ १९१ ॥
तस्मिन्नरेन्द्रमहिषी बभूच विरहातुरा ।
अत्रान्तरे नरपतेः प्रविश्याहारमण्डपम् ॥ १९२ ॥


रूपिणः ख. ३. नी ख. ४. सारणा न. ५. दा ख. ६ कातरम् स.७. संभ्रमात्प्रत्युवाच तम्" नखा.