पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२१४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५२
काव्यमाला ।

अधुना क्षीणशापोऽहं द्रष्टुमिच्छामि तां प्रियाम् ।
उक्त्वेति सार्थपः प्रायात्प्रणम्य नरवाहनम् ।। ६० ।।
इति चन्द्रसाराख्यायिका।।1।।
चन्द्रसारे प्रयातेऽथ संगते च मृगीदृशा ।
वत्सेश्वरात्मजो हृष्टस्तत्कथाविस्मयाकुलः ।। ६१ ॥
दत्तां रुचिरदेवेन राजपुत्रीमवाप्तवान् ।
विद्याधराधिराज्याय पुरः सिद्धिमिवागताम् ।। ६२ ॥
जिनेन्द्रसेनां संप्राप्य कन्यापरिणयोत्सवे।
तामेवारुह्य करिणीं प्रययौ नरवाहनः ॥ ६३ ।।
व्रजन्सर्वात्मना प्राप्य मगधाधिपतेः पुरीम् ।
तेन संपूजितः प्रायात्कौशाम्बीं वल्लभासखः ॥ ६४१
तत्र प्रणभ्य वत्सेशं दृष्ट्वा मदनमञ्चुकाम् ।
ईर्षाकोपकषायाक्षीं प्रणामानतशेखरः ॥ ६ ॥
रहः प्रसादयामास विलासहसितावधिम् ।
हटकण्ठग्रहानन्दमुकुलीकृतलोचनाम् ॥ ६६ ॥
तां सेवमानो लावण्यनदीं मदनमञ्चुकाम् ।
नरवाहनदत्तोऽभूदभिषिक्त इवामृतैः ॥ ६७ ।।
ततः कदाचित्प्रत्यूषे फुल्ले कमलकानने ।
संध्यारागारुणे व्योम्नि तत्प्रभाभिरिवावृते ॥ ६८.
प्रभातवातनिःश्वासान्गाढं रक्तेऽशुमालिनि ।
उदयाद्रिमिवारूढे वियुक्तां द्रष्टुमञ्जिनीम् ॥ 6९ ॥
शुश्राव राजतन्यस्तारमन्तःपुरान्तिके ।
अकाण्डे करुणारावं कीर्णशोकसशङ्कितः ॥ ७० ॥
किमेतदिति पृष्टोऽथ वयस्यस्तेन गोमुखः
चिरादकथयद्भूमिं विलिखन्सास्रवीक्षितैः ॥ ७१ ||


कान्ता'श.२.'त'ख,