पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शशाङ्गवत्याम्-श्रीदर्शनाख्यायिका ॥
२७५
बृहत्कथामञ्जरी।

(नामावली भूषणेषु यस्येय परिदृश्यते ।
श्रीदर्शनः स नृपतिर्दूरस्थो ज्ञायते कथम् ॥ ७३२ ॥
ध्यात्वेति ब्रह्मसोमाख्यं तिनं ज्ञानलोचनम् ।।
पुन्याः समीहितप्राप्त्यै गूढ राजाः व्यजिज्ञपत् ॥ ७३३ ।।
अन्येषु सर्वकार्येषु सिद्धिन) सततं भवान् ।
अस्मिन्समीहिते पुत्र्याः प्रसादं कर्तुमर्हसि ॥ ७३४ ॥
इति भूमिपतेर्वाक्याक्षिप्रमेव स खेचरः ।
श्रीदर्शनपुरीं प्राप्य गणेशायतनं ययौ ।। ७३९ ।।
तत्र प्रणम्य विनेश संपत्कमलिनीरविम् ।
स्तुति स चक्रे निर्यन्त्रमन्त्रतत्रखतवाक् ।। ७३६ ॥
गजाननं नमाम्युअविनवजनिबर्हणम् ।
गेंजतुण्डाभभुजगावनद्धकटिमण्डलम् ॥ ७३७ ॥
मदाम्बुसिक्तदंष्ट्रांशुव्यात स्तौमि गणेश्वरम् ।
जाहवीयसुनावारि क्रीडाशौण्डमिवानिशम् ॥ ७३८ ।।
नौमि फूत्कारविक्षिप्तकुम्भसिन्दूरसंचयम् ।
दैत्यक्षयाकालसंध्यां सृजन्तमिव शांकरीन ॥ ७३९ ॥
नौमि क्षिपन्तं मधुपान्कर्णतालानिलैर्मुहुः ।
हेरम्ब दन्तचन्द्रांशुदीर्णध्वान्तकणानिव ॥ ७४० ॥
नमामि तं गणाधीश क्रीडासु गलगर्जितैः ।
ताण्डवाडम्बराचार्यो यः वमुखशिखण्डिनः ॥ ७४१॥
इति स्तुल्ला गणपति ब्राह्मणोऽसौ यदृच्छया।
प्राप्तमुन्मादवणिज चकार स्वच्छविग्रहम् ॥ ७४२ ॥
राजधानी प्रविश्याथ श्रीदर्शनमवाप्य सः ।
निवेद्य सद वृत्तान्त इंसद्धीप निनाय तम् ॥ ७४३ ।।


१. एतल्कोष्ठान्तर्गतपाठः क-पुस्तके त्रुदितः..२. 'जगनिधानभुजगानुकारी-

कलमाइलमूक