पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शशाङ्कवत्याम्-भीमभटाख्यायिका।
२८१
हत्कथामञ्जरी।


इति श्रुत्वाखिलं तस्मै दत्त्वा रत्नविभूषणम् ।
भीमो वयस्यसहितस्त गङ्गां समुद्ययौ ॥ ८०९ ॥
उत्फुल्लफनपटलां साट्टहासामिवालसाम् ।
सताण्डवामिवोद्दण्डवीचिदोर्दण्डमण्डलैः ॥ ८०६॥
तौ प्रविष्टौ त्रिपथगां भुजाक्षेपैः ससर्पतुः ।
क्षिपन्तौ रत्नकटकच्छायाशवलितं पयः ।। ८०७ ॥
आन्दोलित कुण्डलवन्नीलरत्नत्विया मुहुः ।
सेवालवल्लरीजालं कर्षन्ताविव रेजतुः ॥ ८०८ ॥
ततः प्रालयसंकाशैः पुष्करावर्तशालिभिः ।
दूर हृतः शङ्खदत्तः सलिलैर्बहुविप्लवैः ।। ८०९ ॥
पारं भीमभटः माध्य मित्रेमाशु विनाकृतः ।
शोकान्धकारमभवचक्रवाक इवाकुलः ।। ८१० ॥
संपत्सु केलिसदनं व्यसनेषु समाश्रयः ।
कोशो विश्वम्भचर्चासु किं नाम न सुहन्नृणाम् ॥ ८११ ॥
स तद्वियोगसंतप्तः क्षेप्तुमात्मानमम्भसि ।
समुद्ययौ प्रियभ्रंशो धीरैरपि न सह्यते ।। ८१२ ।।
ततः साक्षाद्भगवती गङ्गा कान्तितरङ्गिता।
तं. प्राह साहसं पुत्र मा कृथा मित्रनाप्स्यसि ॥ १३ ॥
ईमां च प्रतिलोमाख्यां दिव्यविद्यां गृहाण मे ।
यया भवन्ति सहसा यथेच्छा रूपवृत्तयः ।। ८१४ ।।
इत्युक्त्वा दन्तकिरणैः क्षालयन्तीव दिक्तटीम् ।
ददौ सुरणदी विद्यां तस्मै खेच्छाकृतिपदाम् ॥ ८१५ ॥
ततो जन्धैर्यसखो निजोत्साहरत स्थितः ।
स लाटविषयं प्राप विषयं सर्वसंपदाम् ॥ ८१६ ॥


"निशम्' का २. "लिंकुण्डलचल भील' क... ३. 'भा' क. ४. 'क्रोधा'

'प्रतिलोभानुलोमाभ्या दिव्यां विद्या क... 'थ: क.